________________
श्री मन्त्राधिराज-यन्त्रोदारः
नाभिपद्मस्थितं ध्यायेत् पञ्चवर्ण जिनेशितः । तस्थुर्हरे षोडशामी सुवर्णा तयो जिनाः ।।३३।। ईकारे संस्थिती पार्श्व-मल्ली नीलौ जिनेश्वरौ । पद्मप्रभ-वासुपूज्यावरुणाभौ कलास्थितौ ॥३४।। सुव्रतो नेमिनाथस्तु, कृष्णाभौ बिन्दुसंस्थितौ । चन्द्रप्रभ-पुष्पदन्तौ, नादस्थौ कुन्दसोदरौ ॥३५।। हितं जयावहं भद्रं, कल्याणं मङ्गलं शिवं । तुष्टि पुष्टि-करं सिद्धि-प्रदं निर्वृतिकारणम् ॥३६।। निर्वाणाभयदं स्वस्ति-शुभधतिरतिप्रदम् । मति-बुद्धिप्रदं लक्ष्मी-, वर्द्धनं संपदां पदम् ॥३७ । त्रैलोक्याक्षरमेनं ये, संस्मरन्तीह योगिनः । नश्यत्यवश्यमेतेषा-मिहाऽमुत्रभवं भयम् ॥३८। द्वाविंशतितमो वर्णः, पञ्चमस्वरसंयुतः । धूमवर्णो जिनेन्द्रस्य, लिङ्गस्थाने व्यवस्थितः ।। ३६ ।। वामेयदक्षिणे पादे, रुद्रसंख्याक्षरोऽस्वरः । हेमवर्णो जानुकटया-विमावेव संगतौ ॥४०।। षान्तं लान्तसमायुक्तं, साकारं श्यामला तिम् । वामेयदक्षिणे कुक्षौ, मरुद्वर्ण विचिन्तयेत् ॥४१।। साकारं नीलवर्ण व्यधिकत्रिंशदक्षरम् । विचिन्तयेज्जिनेन्द्रस्य, संस्थितं दक्षिणे करे ॥४२॥ चित्समानमिदं वर्ण-षट्कं च संस्मृतं सदा। योगिभिर्ध्याननिपुणैजिनभक्तिपरायणः ॥४३॥ तोयानिलविषादीनां ग्रहराजाजि रक्षसाम् । अरातिमारि दस्यूनां, श्वापदानां भयं हरेत् ॥४४॥ श्रीपार्श्वनाथवक्षोज-युग्मे कुन्दसमद्युती। रुद्रार्यमस्वरौ चिन्त्यौ, त्वाद्यस्याधिपतिर्जया ॥४५।।