________________
मन्त्रकल्प संग्रह
विज्ञा वक्षस्यक्षरे श्वेतवर्णे,
शेषान, वर्णान, योगिनः केचिदाहुः ।।२०।। अथ मन्त्राधिराजस्य, कमठस्थोपदेशतः । प्रकटस्य तु बीजानां, निष्पत्यतिशयो ब्रुवे ॥२१॥ निष्पन्नः प्रथमो वर्णस्त्वहतामशरीरिणाम । प्राचार्याणामुपाध्याय-मुनीनां प्रथमाक्षरैः ॥२२॥ मोक्षसौख्यप्रदो भाले, पार्श्वनाथस्य नीलरुक् । सकलोनाद-बिन्दुभ्यामुपेतस्तेजसां चयः ।।२३।। स एव दक्षिणे स्कंधे, रक्तवर्णस्तु चितितः। . जगद्वश्यमवश्यं हि, प्रदत्ते योगिनां पुनः ॥२४॥ शून्यवह्नयक्षरभवः प्रभवः, सर्वसम्पदाम । नादबिन्दु-कलोपेतः साकारः पञ्चवर्णयुक् ॥२५॥ वामातनुजवामांस-संस्थितो रूपकीर्तिदः । धनपुण्यप्रयत्नानि, जय-ज्ञाने ददात्यसौ ।।२६॥ स एवेश्वरसंयुक्तः स्थितो हस्ते जिनेशितु । योगिभिर्ध्यायमानस्तु, रक्ताभोऽतिशयप्रदः ॥२७॥ षष्ठस्वरजितोऽरिघ्नो, धूमवर्णः स एव हि । पूज्यतां विजयं रक्षां दत्ते ध्यातोऽस्य कुक्षिणः ॥२८।। विसर्गद्वयसंयुक्तः स एव श्यामला तिः । जिनवामकटीसंस्थः, प्रत्यूहव्यूहनाशनः ।।२६।। सर्वाऽशिवप्रशमनो ऽञ्जनकान्तिविसर्गयुक् । वामजानुस्थितोध्यातः, षड्विशतितमोऽक्षरः ।।३०।। वामेयवामचरणे, पीतवर्णः कखात्मकः । पिशाचग्रहभूतानां, शाकिनीनां प्रमर्दनः ॥३१॥ सुवर्णाभहरं नीलवर्णकारसमन्वितम् । . रक्तप्रभकलं श्याम-बिंदुकुन्दभ नादयुक् ।।३२।।