________________
मायाबीजाक्षरस्तोत्रम्
[१४७
यः श्यामलं कज्जलमेचकामं, त्वां वीक्षते चातक धूमधूम्र। विपक्षपक्षः खलु तस्य वाता,-हताभ्रवद्यात्यचिरेण नाशम् ।।७।।
आधारकंदोद्भवतन्तुसूक्ष्म .. लक्षोन्मिषद्ब्रह्मसरोजवासम् । यो ध्यायति त्वां स्रवदिन्दुबिंबाऽमृतं स च स्यात्कविसार्वभौमः ।। षट दर्शनोस्वस्वमतावलेपात्, सदैव तत्त्वन्मय बीजमेव । ध्यात्वा त्वदाराधनवैभवेन, भवेदजेयः परवादिवृन्दैः ।।६।। कि मंत्रतंत्रविविधागमोक्त र्दु:साध्यसंशीतिफलाल्पलाभैः । सुसेव्य सद्यःफलचिन्तितार्थाधिकप्रदश्चेतसि चेत्त्वमेकः ।।१०।। चोरारिमारिग्रहरोगलूता-भूतादिदोषा बधबंधनोत्याः । भियः प्रभावात्तव दूरमेव नश्यन्ति पारींद्ररवादिवेभाः ।।११।। प्राप्नोत्यपुत्रः सुतमर्थहीनः, श्रीदायते पत्तिरपीशतीह । दुःखी सुखी चाऽथभवेन्न किं वा, त्वद्र पचिन्तामणिचिन्तनेन । १२ । पुष्पादिजापामृतहोमपूजा-क्रियाधिकारः सकलोऽस्तु दूरे। यः वे वलं ध्यायति बीजमेव, सौभाग्यलक्ष्मीर्वृणुते स्वयं तम ।।१३।। त्वत्तोपि लोकाः सुकृतार्थकाम-मोक्षान् पुमर्थांश्चतुरो लभन्ते । यास्यन्ति याता अथ यान्ति ये च, श्रेयः पदं त्वन्महिमालवः सः ।१४। विधाय यः प्राक्प्रणवं नमोन्ते, मध्ये च बीजं ननु जंजपीति । तस्यैकवर्णा वितनोत्यऽवंध्यां कामार्जुनीकामितमेव विद्याम् ।।१५।। मालामिमां स्तुतिमयों सगुणां त्रिलोकी
बीजस्ये यः स्बहृदयेकुरुते त्रिसंध्यम् । अंकेऽष्ट सिद्धिरवशाल्लुठतीह तस्य,
नित्यं महोदयपदं लभते क्रमात्सः ।।१६।। ( इति श्री मायावीजाक्षरस्तोत्रम् )