________________
श्री पद्मावत्यष्टकम्
[१२६
धवलचन्द्रकरोज्वले पुनः हां च ह्रीं च हश्च पक्षयश्च ह्वां हवी ह वः पक्षय एते एव बीजं यस्य तत्सम्बोधने हे० । एतेन चक्र सूचितं । तद्यथा--लं बं हु पक्षिनामभितस्य वेष्ट यं बहिः षोडशदलमध्ये अकारादिक्षकारपर्यन्तानि संलिख्य बहिः ठकारेण वेष्ट यं बहिर्वादशदलेषु ह हा हि ही हु हु हे है हो हो हं हः । बहिः हकारद्वयं सम्पुटस्थं बहिः झ्वी क्ष्वी हं सं वेष्टयेत, पुनस्तद्बाह्य एकारद्वयं संपुटस्थं पुनर्बाह्य . मायाबीजं त्रिगुणं वेष्टय मन्त्रमिद एतद्व्यक्ष्यमाण यन्त्रद्वयं । तद्यथा--कां खां गाँ घाँ चों छों ज्व इवीं नमः गरुडध्वजो नाममन्त्रः । करजापसहस्रेण सिद्धिः। क्षिप ॐ स्वाहा नीर २१ वार मभिमन्व्य पाय्यते अजीर्णविषं नाशयति । ह हा हि ही हु हू हे है हो हौ हं हः अनेनोदकमभिमन्त्र्य श्रोत्राणि ताडयेत अभिषेचयेत निविषो भवति कं वह वः । पक्षिवः स्वी हंस: मन्त्रमाराधयेत् । श्वेताक्षतैः श्वेतपुष्पैर्वा श्रीखण्डादिभिः सुगन्धिद्रव्यैः शरावसम्पृटे संलिख्य शान्ति तुष्टि पुष्टिर्भवति एतज्जलपूर्णे घटे क्षिपेत् शीतज्वर दाघज्वरं नाशयति ग्रहपीडानि सर्वे दोष : न प्रभवन्ति दृष्टप्रत्ययमिदं । पुनः किंभूते ? प्रक्षर० प्रक्षरदुग्धपाण्डुरे । ॐकारैः विमुक्तिकार सरहंसः अमृतहंस : कोपं व झः हसः ठः ३ स्वाहा। सर्व विषोंजन 'मन्त्रः । पुनः किं भूते ? व्याल व्या० दंदशूक कल्याणमान्यं कल्याणमन्यि कुशलयुक्तम । कथं सततं निरन्तर केषां पटुतरपठतां भणतां कथ भक्तिपूर्व भक्तिपुरस्सरं न केवल भक्तिपूर्वत्रिसन्ध्यं च किंकर्मतापन्न स्तोत्रं स्तवन, कीदृशं ? दिव्यं प्रधान, पुनः कीदृशं ? पवित्र, अस्यां पार्श्वदेवगणिविरचितायां पद्मावत्यष्टकवृत्तौ यत्किमपि अवद्य पठितं तत्सर्वं सर्वाभिः क्षन्तव्यम देवताभिरपि। .. वषाणां द्वादशभिः, श्शतैगतै रस्युत्तरैरियं वृत्ति; -वैशाखेसूर्यदिने समथिता शुक्लपञ्चभ्यां ॥१॥ अस्याक्षरगणनातः, पञ्चशतानि जातानि । द्वाविंशदक्ष राणि च, सदनुष्टुप् छन्दसां प्रायः ।।२।।
.।। इति पद्मावत्यष्टक वृत्तिः संपूर्णा ।।