________________
११.]
मन्त्रकल्प संग्रह
चासौ माणिक्यमाला च दिव्यमा० । मुकुटानां तटो मुकुटतटो । तस्यां लग्ना या दिव्यमा० मुकुट० श्रीमद्गीर्वाणचक्रस्यस्फुटा मुकुट श्रीम० माला । तासां ज्योतिस्तेजस्तस्य ज्वाला, तया करालं, स्फुरिता मुकुरिका स्फुरितमुकुरिका । श्रीमदगीर्वाणचक्रस्फुट मुकुटतटीदिव्यमाणिक्यमालाज्योतिज्वालाकरालास्पुरितमुकुरिकाभि घष्टे पादारविन्दे यस्या सा श्रीम० । तस्यां सम्बोधने हे श्रीम० । श्रीमत्रिदशनिकुरम्बकिरीटकोटीन्यस्तप्रधानरत्नमाला . दीप्तिशिखारौद्रस्फुर्यमाणमुकुरिकया० घर्षित चरणार विन्दे । पुनः कीदृशे ? व्याघोराश्च ता उल्काश्च व्याघोरोल्कास्तासां सहस्राणि व्याघो० ज्वलंश्चासावनलश्च ज्वलदनलस्तस्य शिखा ज्वल. पाशंश्च अङ्क शश्च (ञ्च) पाशांकुशे, लोले च ते पाशांकुशे च लोलपाशांकुशे व्याघो० च लोलपाशांकुशाश्च तैराढय । तारापतनज्वालासहस्रदेदीप्यमानाऽनलधाराचञ्चलपाशांकुशप्रहरणे । पुनः कोदृशे ? आं क्रों ह्रीं मन्त्ररूपे आं क्रों ह्रीं रूपो य एव मन्त्रस्तत्स्वरूपे पुनः किं भूते ? . क्षपित कलिमले, विघटित पापमले, अस्य भावनामाह-श्रीकारं नागगर्भ तस्य बाह्य षोडशदलेष लक्ष्मी बीजमालिख्य निरन्तर ध्यायमानं पिङ्गलादिद्रव्यः सौभाग्यं भवति । द्वितीयरीत्या षट कोणमस्य चक्र मध्ये कारनामगभितस्य बाह्य कारं दातव्य बहिरपि में संलिख्य कोणषु ॐ क्लीं ब्लू द्रां द्रीं द्रं संलिख्य मायाबीजस्त्रिविधमावेष्टय निरन्तरं स्मर्यमाणे काव्यशक्तिर्भवति । अथ तृतीयः षटकोणचत्रमध्ये ऐं क्ली-नाममध्ये ततः कोणेषु ॐ ह्रीं क्ली द्रवे नमः १ । ॐ ह्रीं क्लों द्रावे नमः २। ॐ ह्रीं खं दे नमः ३। ॐ ह्री उमादे नमः ४ । ॐ ह्रीं द्रवे नमः ५ । ॐ ह्रीं द्रावे नमः ६ । ॐ ह्री पद्मिनीनाममालिख्य बहिरष्टदलेषु मायाबीजं दातव्यं, बाह्य षु षोडशदलेषु झौं संलिख्य बहिरष्टदलाने मायाबीजं संलिख्य मध्येषु ॐ आं क्रों ह्रीं जयायै नमः विजयायै नमः अजितायै नमः अपराजितायै नमः जयन्ती नमः विजयन्ती नमः भद्रायै नमः । ॐ ह्रीं जां ह्रीं शान्ताय नमः आलिख्य बाह्य मायाबीजं त्रिगुणं वेष्टय । माहेन्द्रच क्राङ्कितं चतुःकोणेषु