________________
श्री पद्मावत्यष्टकम
|१०६
-
--
-
श्री पद्मावत्यष्टकम्
श्रीमद्गीर्वाण चक्रस्फुटमुकुटतटी दिव्यमाणिक्यमाला.
ज्योति लाकराला स्फुरितमुकुरिकाघृष्टपादारविन्दे । ध्याघ्रोरोल्कासहस्रज्वलदनलशिखा लोलपाशांकुशाध्य ।
प्रां क्रां ह्रीं मन्त्ररूपे क्षपित कलिमले रक्ष मां देवि पद्म ।।१।। ऐनमः । प्रणिपत्य जिनं देवं श्रीपाश्वं पुरुषोत्तमम् ।
पद्मावत्यष्टकस्याहं वृत्ति वक्ष्ये समासतः । १।। ननु किमिति भवद्भिर्मुनिभिः सद्भिः पद्मावत्यष्टकस्य.. . . . कथमस्यास्तुतेवत्तिर्भवतां युक्ता ? मैवं, प्राशयानभिज्ञत्वात् । यतः सा हि तीर्थ करस्य भगवतः श्रीपार्श्वनाथस्य शासनरताऽवितथ सम्यक्त्वयुक्ता जिनसदनरक्षयित्री सर्वभव्य ननानंददायिनी अष्टचत्वारिंशत्सहस्रपरिवारा एकावतारा श्रीपार्श्वनाथचरणोपासनतत्परा अतस्तस्या सम्बन्ध्यष्टकवृत्तिकरणे न दूषणमित्याशयः । अथ च पूर्वसूरिकृतस्यास्य स्तोत्रस्य वृत्तिकरणे किं प्रयोजनमिति चेत् ? शृणु, त्रिविधं हि प्रयोजनम् । स्वपरोभयभेदात्तत्र स्वप्रयोजनमस्यार्थाविस्मरणलक्षणां विद्यत एव १। तथा मत्तोप्यधिकमन्दबुद्धीनां केषांचिदस्य वृत्तेरर्थज्ञानं भावीति परप्रयोजनम् । अतएव उभय प्रयोजनमपि सुज्ञ । तस्त्रयमप्यत्रास्तीति निष्प्रयोजनशङ्काव्युदस्ता। तत्राद्यवृत्तमाह--
श्रीमदेति व्याख्या--हे देवि पद्मावति शासनदेवि ! मां रक्ष, पालय, के मां ? स्तुति कत्तरिम् । कीदृशे देवि ? श्रीमद्गी० श्रीविद्यतेयेषां ते श्रीमन्तस्ते च ते गीर्वाणाश्च श्रीम. तेषां चक्र समूहो श्रीमद्गीर्वाणचक्र । माणिक्यानां माला माणिक्यमाला, दिव्या