________________
मन्त्रकल्प संग्रह
सर्वबाह्यान्तसंबंधापन्नमनेप्राकारत्रयालङ्क तगोपुररत्नमयकपिशीर्ष-. कतोरणविराजितम् अवनितलमायोजननीहारिणीप्रसरद्भव्यलोकहृदयानदकारिणीप्रधानाद्धमागधभाषाविशेषणा समकालमेवचित्तस्वरूप नरामादिजंतुसंशयसंदोहापोहसमुत्पादनेन स्वविहारपवनप्रसरेण पंच पंचविंशतियोजनप्रमारणचतुर्दिग भागमहामण्डलमध्ये सर्वव्याधिरजोराशेरपसारणेन चतुर्विधश्रीश्रमणासंघदेवनरेन्द्रदानवचारणविद्याधरकिन्नरनरनारी तर्यञ्च(क)प्रभृतिभिरमृतरसपीयमान निरंतरं चित्लाह्लाददायि नमितिध्यानमित्युच्यते-पुनरपि कथं भूतं उवसंग्गहरमिति कः शब्दार्थ उच्यते-सृज विसर्गे-इत्यस्य धातोरुपशब्दपूर्वकस्य उपसर्जनमुपसर्गः भावे धञ् प्रत्ययः नामिनश्चोपधायालधोरित्यनेन सूत्रोण गुणे कृते पश्चाच्चजोः कगो बुद्धयानुबंधयोरित्यनेन सूत्रोण गादेशे कृते "उपसर्ग" इति सिद्धम् । हत्र हरणे इत्यस्य धातोः हरणं हरः स्वरविधिगमिग्रहामलप्रत्ययः नाम्यांतयोर्धात विकरणयोगुंणः । हर इति सिद्धम् । उपसर्गहरं प्रत्यूहविध्वंसकमित्यर्थः । पावंमितिशब्देन पार्श्वनामा यक्षः स उच्यते । तत्र पार्श्वनाथतीर्थ समुत्पन्नस्त्रायोविंशतितमो यक्षराट. अष्टचत्वारिशत्सहस्रयक्षपरिदृतः । श्रीपार्श्वनाथपादयुग्मसेवां करोति । पुनः कथं भूतं १ कर्मधनमुक्तम् । क्रियन्त इति कम्माणि घनानि च तानि कम्माणि च क्वचित्परनिपातोपीति वचनात् कर्मघनानि तमुक्त, कर्मघनमुक्त निविडकर्मरहितम् । इत्यर्थः । पुनरपि कथंभूतं विषधर-विषनिशिं, विषधराणां विषं विषधरविषं तन्निर्नाशयति विषधरविषनिर्नाशस्तं, विषधरविषनिर्नाशं दुष्टसर्पविषविनाशकमित्यर्थः । पुनः कथं भूत ? मंगलकल्लाण आबासं, मंगलमिति कः शब्दार्थः उच्यते-अगि रगि लगि मगीति दण्डकधातुरस्येदिता तु मृधातोरिति विहिते प्रोणादिकेऽलच प्रत्यये तस्य अनुबन्धलोपे च कृते प्रथमैकवचनान्तस्य च मङ्गलमिति रूपं भवति मगयते हितमनेनेति मंगलं, मङ्गयते-विधिना गम्यते