________________
तृतीयः सर्गः
स्त्रियः कायेऽत्र किं सारं चर्मबद्धास्थिसंचये। निसर्गकुणिपे निंद्ये शुक्रशोणितसंभवे ॥४५॥ मुखे श्लेषमादिसंपूर्ण विष्टादिनिचितोदरे। स्वभ्ररंध्राकृतौ योनो को ज्ञानी रतिमादधे ॥४६।। सप्तधातुमयेऽभ्यंतराशुच्येकनिधानके। गौरचावते बाह्य वस्याभरणमंडिते ॥४७॥ कामज्वरवतां पुंसां चक्षुषां लोभदायिनि । श्रवनमूत्रादिके काये धीमतां स्यात्कुतो रतिः॥४८॥ कामाग्नेमैथुनेनैव शांति वांछंति ये शाः। तैलेनावानलं ते निवारयति स्मसतुराः ।।४।। स्त्रीकायमथनोत्पन्नमतृप्तिजनकं सताम् । कथं स्थागतयेनिधं बीभत्सं मैथुनं भुविः॥५०॥ भोगान् पंचेंद्रियोत्पन्नान्दुःखपूर्वांश्च दुस्त्यजान्। अनन्तभवहेतून् कः सेवतेऽत्रा सुधीः खलान् ॥५१।। यस्याः स्नेहेन संजातो गृहस्थोऽहं स्मरांधधीः । तस्याः स्नेहो मया दृष्ट इदानों कुब्जकेऽधमे ।।५२।। अतोऽलं मेऽत्र संसारसुखेनाशर्महेतुना। . गृहाश्रमेण पापार्थिनातिदुःखाकरेण च ॥५३॥ तथा श्वभ्रप्रतोल्या मे पूर्यतां रामयाऽनया। रजो निभेन राज्येन श्रिया चंचलयाऽपि च ॥५४॥ धन्या हि प्राक्तनास्त्यक्त्वा मायाजालमिदं बुधाः । गृहोद्भवं वनं प्रापुर्दीक्षायै मुक्तिकांक्षिणः ॥५५॥ अहं ज्ञानासिना हत्वा स्मरं मोहभटं खलम् । जिनमुद्रां गृहीष्यामि प्रभाते मुक्तिदूतिकाम् ॥५६॥ एवं दीक्षोद्यतो यावद्वराग्यान्वितमानसः : विरक्तः कामभोगेष राजस्तिष्ठामि साधुधीः ।।५।।