________________
यशोधरचरितम् तयोर्वधाय चोखालो मयाखङ्गो रुषावता। तेजसाढ्यं पुनदृष्ट्वा -तं हेति हृदि चिंतितम् ॥३४।। 'महारणेऽरिचक येनाशु संसाधितं कथम् । वधायास्यातिदानस्याकृष्टः सोऽसिर्मया क्रुधा ॥३५॥ पूर्वं मयादाद्यत्र मन्मानेन समर्पिता। यौवने जनितः पुत्रो यया मे संन्निभो गुणः ॥३६॥ . तां हन्तुं मे कृतेच्छस्य कथं स्थान्न यशो महत्। [स्त्रो]हत्यादिभवो दोषो लज्जा च तद्विधातनात् ।।३७।। मत्वेत्यासि परित्यज्य पतित्वा शयनोदरे। गत्वा त्वहं विषष्णात्मा भूयश्चैवं विचितयन् ॥३८॥ कृत्स्नदुःखाकरीभूता समाऽधर्मखनी खला। स्वर्गधामार्गला दुष्टा निःशेषानर्थकारिणी ॥३६॥ श्वभ्रवेश्म प्रतोलीयं नृवंचनकुपंड़िता। परप्रेमधरा पापा कपटादिशताकरा ॥४०॥ मायावल्ली धियाहीना धर्मसद्रत्नतस्करी। पुंसां सा बंधने पाश, खला [रज्जुसंनिभा] ॥४१॥ वेदनैव महाशर्मदायिनी दुष्टमानसा। दानस्नेहांशु तीवात्र शफरीवातिचंचला ॥४२॥ कामाग्निदहने सेंधनोपमा कुटिलानना। संसारकारणा नारी मुक्तिकान्तातिभीतिदा ॥४३॥ हृद्यन्यं धारयेदुष्टा वाचा मन्येन सा वदेत् । कायेनाप्य परं भुंक्ते पापाढ्या श्वभ्रगामिनो ॥४४॥
१. क. ख. ग. घ.-चिन्तितम् हृदि ।
भवे दो लज्जांच। ३. क.ख. ग. घ. पुंसां सा बंधने पाश/खलारज्जसन्निा '