SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ · तृतीयः सर्गः भुजपंजरमध्यस्थां कृत्वा तां मृगलोचनाम् । तत्र रत्यवसाने ऽहं प्रक्रमे शयितुं तदा ॥ २४ ॥ तद्रूपादिसुसौंदर्यं [ चिन्तामग्नस्य' ] मे मनाक् । नायान्निद्रातिकामादि प्राप्तनिर्वृ तिचेतसः ॥ २५ ॥ अथ ज्ञात्वाशु सा कांता मां सुप्तं भुजपंजरात् । निर्गता दुष्टचेष्टाद्या निर्मोकादिव सर्पिणी ।। २६ ।। कपाटयुग्मयोः सोद्घाटनं कृत्वा ततो वहिः । निश्चक्रामातिनिर्लज्जा वस्त्रालंकारधारिणी ॥। २७ ॥ ततो मयेति संध्या राजन्विस्मितचेतसा । यामिन्यर्द्ध गते क्वेयं गंतुं [स्यादुद्यता' ] ऽधुना ॥ २८ ॥ हंगमादाय [स्वयमन्धपटावृतः ] । गत्वा तदनुपादं हि सद्मद्वारि रुषास्थितः ॥ २६ ॥ ततो दृष्टा मया राज्ञी पादमूलमुपाश्रिता । [ खंजस्य कोलकेश्यस्य क्लेशितः पापिनः खलाः 4 ] ॥ ३० ॥ कुसंस्थानास्थिमात्रस्य करालास्यास्य कुष्ठिनः । बहुदोष निधानस्य कलाकृतिधारिणः ॥ ३१ ॥ तदंघ्रिमर्दनं कृत्वोत्थापितः स शनैस्तया । नसाऽतिरुषा कृष्टा केशपाशे विरागतः ।। ३२ । तद्विलोक्या तिवैचित्र्यं स्वशिरो विधुतं मया । अहो इदं महच्चितं क्वेयं कायमिति ब्रुवन् ।। ३३ ।। क. ख. ग. घ. चिन्तमानस्य । કર २. क. ख. ग. घ. समुद्यता । ३. क. ख. ग. घ. प्रावृत्यांधपटेन स्वम् । ४. क. ख. ग. घ. खंजस्व क्लेशिनः कोलकेश्यस्य पापिनः खलाः - मात्र दोषः अभिव्यक्तिदोषश्च ।
SR No.002236
Book TitleYashodhar Charitam
Original Sutra AuthorN/A
AuthorBhagchandra Jain
PublisherSanmati Research Institute of Indology
Publication Year1988
Total Pages184
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy