________________
८५
यशोधरचरित्रम्
सन्मार्गदर्शनायात्र कालादौ तीर्थनायकः । उत्पद्यते यथा चंद्रो ध्वान्तहान्यै समुद्गतः ॥ १२ ॥ विहृत्य च महीं यद्वत् हन्त्यज्ञानतमो जिनः । स्ववचोरश्मिभिस्तद्वत्किरणैश्चन्द्रमास्तमः ॥ १३ ॥ मिथ्यात्व ध्वान्त-निर्ध ते यथाऽगुः सौख्यतां जनः । जिनेशिना तथा चंद्रमसोद्धूते तमंश्चये ।। १४ ।। एव मिद्धांशुभिर्लोके सितिमानमुपागते । सभाजना निजावासान गुर्द्वारस्थविसर्जिताः ।। १५ ।। ततः कामसुखाकांक्षी महादेवीगृहं मुदा । अष्टभूमियुतं गंतुं प्रवृत्तोऽहं रतीच्छया ।। १६ ।। तस्याद्यं द्वारमासाद्य तुंगं चित्रकरं वरम् । प्रतीहारो मया दृष्टा जयशब्दादि सूचिका ।। १७ ।। तत्प्रकोष्ठं समालम्ब्य सूक्ष्मांशुक-समावृतम् । लीलयाढ्योऽति रागाढ्यः प्रविष्टोंतः स्वपाणिना ।। १८॥ विचित्रोपल[संप्तास्ताः '] सुसोपान मालिकाः । रम्या दोप्ताः समारुह्य त्यक्त्वा [वै] सप्तकुट्टिमान् ॥ १६ ॥
शुद्धस्फटिकसंजातमष्टमं वरकुट्टिमम् । आरूढोऽहं कृतालोकं नानादीपैर्मनोहरम् ॥ २० ॥ मदागमं परिज्ञाय कुब्जवामनिकादिभिः । तस्माद्विनिर्गता राज्ञी कुर्वती मे जयस्वनम् ॥ २१ ॥ मनोहरतरां कांतामादाय स्वकरे मुदा । शुक्लोरुमृदुबाहुल्यं शयनीयमुपाश्रितः ॥ २२ ॥
ततस्तया समं भुक्त्वा कामभोगाननेकशः । हत्वा कामज्वरं प्राप्तो निवृत्ति चेतसाप्यहम् ॥ २३ ॥
१. क. ख. ग. घ. संनिभिताः ।
२. क. ख. ग. घ 'च' मात्रादोषो ।