________________
तृतीयः सर्गः
वर्द्धमानं जिनाधोशं विश्ववंद्यं जगद्धितम् । सार्थनामानमेवाहं वंदे सिद्ध्यै कृपाकरम् ॥ १ ॥ मथान्यदा सभामध्ये स्थितो हुर्यासने हृदि । अमृतादि- महादेवीं [संस्मरन् मदनातुरः ] ॥ २ ॥ तल्लावण्य कलारूप-भूषादिगुण चितनात् । तदासक्तिर्वभूवातिकामदाहा मम ॥ ३ ॥ ततो मयेति संध्यातं दत्वा राज्यं स्वसूनवे । यथेष्टं मानयिष्यामि सदा भोगांस्तया समम् ॥ ५ ॥ यथात्र लोकसंतापो नाधः पतति पापतः । तथाधः पतितो भानुरस्ताद्रः प्रपीडनात् ।। ५ ।। यस्मिन् स्थाने सवोऽस्तं स उस्मिन्सर्वे यतीश्वराः । कायोत्यग्रं व्यधुर्धीराः कृत्स्व-सत्वदयाप्तये ।। ६ ।। के सामायिकता बभूवुर्गृ हनायकाः । . धर्मध्यानरतास्तस्मिन्काले स्वमुक्तिहेतवे ॥ ७ ॥ केचिद्धर्मगुणोपेतास्त्यक्त्वा देहं प्रमुक्तये । व्युत्सर्गं स्वाघनाशाय कुर्युर्मोक्षसुखार्णवम् ॥ ८ ॥ जपंतिस्म नमस्कारान् गुरुपंचकनामजान् । कृत्स्न - विघ्नहरान् केचिन्नित्याभ्युदय साधकान् ॥ 8 ॥ केचिच्चित्तं स्थिरीकृत्य कुयुं ध्र्यानं जिनेशिनाम् । दृढासना विवेकज्ञाः कर्म - कक्ष - हुताशनम् ॥ १० ॥ यथा कैवल्य व्युच्छित्तौ पढ्यं तेऽगानि सज्जनैः । पदार्था लोकनाथाय तथा दो ः प्रबोधिताः ॥ ११ ॥
11
.
१. क. ख. ग. घ. स्मराम्यहं स्मरातुरः - मात्रादोषः व्याकरणदोश्च ।