________________
यशोधरचरित्रम् तावदागत्यकामान्धा विस्मयोद्वेगकारिणी। . परप्रेमालसा दुष्टा साविशन्मे भुजांतरे ॥५॥ ततो ध्यातं मयेत्येकं एतया साहसं कृतम्। निर्गच्छंत्या विशत्यानु द्वितोयं ह्यद्भुतं महत् ॥५६॥ एवं चिंतयतो जातः संवेगो द्विगुणो मम। . स्वर्गमुक्तिकरो मान्यः सतां च कृत्स्नवस्तुषु ॥६०॥ . तदंगस्पर्शनं वज्रकंटकेन समं तदा। भासते मे विवेकाढ्ये हृदि रागातिगे शुभे ॥६१॥ गृहीतव्यं तपो घोरं दुष्कर्मेधनदाहकम्। प्रभातेऽत्र मयावश्यं चेमं त्यक्त्वा गृहाश्रमम् ॥६२॥ ममैवं ध्यायतो धीरं साधुकारं वदन्निक। प्राभातिकः समुत्तस्थे तुर्यगीतादिजो ध्वनिः ॥६३॥ मदन्ते मागः: पेठुस्ततः प्रोच्चैः कलस्वनाः। प्राभातिक-सुमांगत्यान्मत्प्रबोधाय तत्क्षणम् ॥६४।। उत्थाय शयनाद्राजन् धाम्मिका धर्महेतवे। . धर्मध्यानं व्यधुः सामायिकादिकभवं द्रुतम् ॥६५॥' जिने प्रोद्गते यद्वद्युर्मया यांति निष्प्रभम्। तथा सूर्येऽप्यगाचेन्द्रः समस्तजनचक्षुषि ।।६६।। सतां मनोम्बुजान्यत्र विकासयति तोर्थराट् । यथांबुजानि चादित्यो विश्वाह्लादी समुगदतः।।६७॥ मिथ्याज्ञानतमो हत्त्वा सन्मार्गसदृशां भुवि। दर्शयित्वेव तीर्थेशो यथा भानुस्तथोतद्गः ॥८॥ अतो राजन्समुत्याय शयनात्त सुखार्णवम् । धर्मध्यानं यथायोग्यं कुरु देवस्तवादिजम् ॥६६॥
१.क.ब.ग. प. द्वितीयमद्भुतं महत् । १. विमसूर्वे, क. जिनेन प्रोद्गते ।