________________
यशोधरचरित्रम् निमग्नो ऽहं सुखांभोधौ स्वभार्या [सुखसंभृतः]। . सामंतसेवितः कालं गतं जानामि नो मुदा ॥ ५६ ॥ संवेगदां कथां शृण्वन् साश्चर्यां महतीं मुदा। कुर्वन् पूजां जिनेन्द्राणां भुनज्मि सुखमुल्वणम् ।। ५७ ॥ अर्थकदा मुखं पश्यन्मत्पिता मणिदर्पणे। भृगाभे केशपाशे स ददर्श पलितं कचम् ॥ ५८॥ . . तेनेति चितितं चित्तेष्वहो लोककनिदिना।। मृत्य्वग्रजा जरा चक्रे स्वपदं मस्तकेऽद्य मे ॥ ५९॥ . मे ऽथवा धर्मदूतीयमागता गदितुं शुभा। त्वां विजेतुं यमः शत्रुरागमिष्यति निश्चितम् ॥ ६० ॥ तानिवारयितुं यत्नं कुरु शीघ्रगृहं त्यज। तपोऽस्त्रर्व त्तसंग्रामभूमि प्राप्प जयेति वै ॥ ६१ ॥ गृहणाम्यहं ततोऽ चैव दोक्षां मृत्युक्षयंकरी।, . मुक्ति-रामा-सखीं नूनं हत्वा मोहमहाभटम् ॥ ६२ ॥ यावदायुः क्षयं नागाद्यावदक्षाणि मंदताम्। प्रापुर्नन्वोद्यमो नश्येत्तावत् कार्य हितं बुधैः ॥ ६३ ॥ यथाऽग्निज्वलिताद्गेहाद् वित्त निष्कास्यते 'जनैः। तथा धर्मो गृहोतव्यो जराग्नि-ज्वलितां गतः ॥ ६४ ॥ वृद्धत्वे सति दुःखाढ्यो विश्वपाप निबंधने। सर्वचिंताकरे राज्ये मतिमान् को रतिं व्यधात् ॥ ६५ ॥
१. क. ख. ग. संवेगजननीमार्हन्तीं कथां स शृण्वन्मुदा । घ. रससंभृते । २. क. ख. भुजन्मि। ३. विनेतुमित्यर्थः। ४. क. ख. वतेति वै । ५. क. ख. ग. घ. यमक्षयंकरी-मात्रादोषः। ६. क.पश्येत्।