________________
द्वितीयः सर्गः
पुरे चोपवने [तूर्य मंगले ]ध्वं जपंक्तिभिः । पक्षद्वय - जनैर्लोकैः कृता शोभा व सुन्दरा ||४५ ॥ विधाय पूजनं पूर्वमभिषेकपुरस्सर्णम् । जिनागारे जिनेशानां महाभ्युदयसाधनम् ॥४६॥ कृत्वा स्नानं पुरंध्रीभिर्भूषयित्वा विभूषणैः । दिव्यांवरैश्च मालाढ्यैश्चंदनाढ्यैः स्वमात्मना ॥४७॥ गीतनृत्य महोत्साहैः बहुतयैर्महा श्रिया । मुदागंतुं प्रवृत्तोऽहं तदुद्यानं नृपावृतः ॥ ४६ ॥ ततस्तत्र मया दृष्ट्वा राजन् सा सुंदरी प्रिया । दिव्यांबरधरा रम्या भूषाढ्या श्रीविापरा ||४|| पुरोहितेन तत्पाणि तदाहं ग्राहितो मुदा । या सा विधिवद्भूत्या परिणीताग्निसाक्षिकम् ॥५०॥ बंधु - सामंत लोकाद्या दीनानाथ जनास्तदा । वस्त्राभरणसन्मानैर्मुदा संतर्पिता मया ॥ ५१ ॥ ततो भार्यां समादाय भूत्या पुण्यफलं नृणाम् । दर्शयित्वा नृनेत्राणां कुर्वन्प्रीति पदे पदे ॥५२॥ प्रविश्य स्वपुरं सार्धं स्वजनैर्भूरिभूमिपैः । संप्राप्तोऽहं निजागारं धनश्रियालंकृतस्तदा || ५३ || एवं निर्वर्त्य कल्याणं मन्मानः स्वप्रियान्वितः । यो स्वपुरमेवाति प्रीतिर्योग्य विवाहृतः ॥ ५४ ॥ एवं पंचशतान्येव परिणीता पुण्योदयात् । सर्वाक्ष सुखधात्रोणां सुरामाणां मया क्रमात् ।। ५५ ।।
..
१. क. ख. ग. घ. मंगलतूर्ये - मात्रादोषः । घ. परोहितेन ।
३. दर्शयच्चानु नेत्राणां कुर्वत प्रीति पदे पदे ।