________________
यशोधरचरित्रम् पठनार्थं सुजैनोपाध्यायस्य सन्महीत्सवम् । . कृत्वी प्रज्ञा सुबुद्धीनां वृद्ध ये भूभुजा मुदा ॥३४॥ ततोऽल्पाहोभिरैवासी विनयेन श्रियागमत् । पारं शास्त्रार्थविद्यास्त्रकलाब्धेश्च सुबुद्धिमान् ॥३५॥ . ज्ञान-विज्ञानसंपन्न यौवनान्वितविग्रहम् । दृष्ट्वा तं तद्विवाहायकिरोच्चितां नरेश्वरः ॥३६॥ . अथ कश्चित्सभास्थाने दूतोप्यागत्य भूपतिम्। . नत्त्वा वक्ति स्वकार्यार्थ प्रतीहारप्रवेशितः ।।३७।। देवास्ति भूपतिः ख्यातो नाम्ना विमलवाहनः। वाराटाख्ये शुभे देशे शीलाख्या तस्य वल्लभा ॥३८॥ तयो रूपादिसंपन्ना दिव्यलक्षणलक्षिता। रम्याऽमृता महादेवी सुताऽभूत सुदंराकृतिः ॥३६॥ यशोधरकुमाराय तां पुत्री दातुमिच्छति। , अत्रानीय तवादेशश्चेदस्ति नृपसत्तम ॥४०॥ . इत्युक्स्वा जोषमेवागाच्चितयित्वा नृपो हृदि । योग्यसंबंधमेवात्रवमत्वित्यवदन्मुदा ॥४१॥ विवाहवासरं पृष्ट्वा सानन्दस्त्वरितान्वितः । प्राप्य स्वस्वामिनं कार्यसिद्धिमेवाप्यबूबुधत् ॥४२॥ आदाय स्वसुतां राजा स्वयं भूत्या विनिर्ययो। कतिभिर्वासरैरेत्य तत्पुरोद्यानमास्थितः ॥४३॥ तत्रस्थस्यापि यद्योग्यं प्राघूर्णकक्रियादिकम् । तत्सर्वं योग्यसामाग् या विहितं भूभुजा तदा ॥४४॥
१. नातिसुस्पष्टभ षा। २. क. ग. मेवात्रैवविमृसीत्यवदत् मुदा । ३. क. ग. घ. सुस्वामिन । ४ क. ख. सामग्रीविहितं तं महीभुजा ।