________________
द्वितीयः सर्गः इत्यादि वर्णनोपेतः पुर्यां भूपशिरोमणिः। । कोत्यौ घाख्यो नृपः ख्यातः कीर्तिव्याप्तदिगाननः ॥२३॥ त्यागी भोगी व्रती दक्षो नोतिमार्गविशारदः । वगादिसद्गुणोपेतो जिनभक्तो दयाधीः ॥२४॥ श्री जिनेन्द्ररतो नित्यं निग्रंथगुरुसेवकः। लसदाभरणैर्वस्त्रैः संपदाभा दिवामरः ॥२५॥ तस्य चन्द्रमती नाम्ना [समभूत् ] सुप्रिया शुभा। रूपलावण्याब्धिर्वा चेलाभरणभण्डिता ॥२६॥ तयोः सद्यौवने भूप बभूवाहं सुतोऽग्रिमः । यशोधराऽभिधाख्यातो यशसा सुंदराकृतिः ॥२७॥ महामहं विधायोच्चरभिषेकपुरस्सरम् । जिनागारे जिनेंद्राणां विश्वाभ्युदयकारणम् ॥२८॥ दीनानाथ जनेभ्योऽपि बंदीभ्यो बहुधा नृपः । दत्वा दानं स्वपुत्रस्याऽकरोज्जन्ममहोत्सवम् ॥२६॥ स्वजनानां च भृत्यानां प्रजानां स्वामिसंभवात् । तदाऽभूत् केतुमालाभिः पुर्यां च प्रमदोत्सवः ॥३०॥ चन्द्ररेखेव स प्राप क्रमाद्वृद्धि स्वरूपवान् । बालयोग्यः पयःपानैश्चान्नैः शुश्रू षया शुभैः॥३१॥ ततोऽध्यास्य कुमारत्वं दिव्यांबरविभूषणः । दीप्त्या कांत्या सुवाण्या स भाति [देव'] कुमारवत् ॥३२॥ देव-शास्त्र-मुनीन्द्राणां कृत्वा सत् पूजनं शुभम् । जिने समर्पितः पुत्रो लग्नसंस्कारपूर्वकम् ॥३३॥ .
१. क. श्री जिनेज्या" २. क. ख. ग. घ. वभूव-मानादोषः। ३. क. ख. ग. घ. बालयोग्य... ४. क. ख. ग. घ. स भाति सुरकुमारवत्-मात्रादोषः । ५. क.ख. ग. घ. विधाय''मात्रादोषः ।