SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ६० यशोधरचरित्रम् 1 केचिन्निरस्तकर्माणः सिद्ध ये धर्मार्जनाय वै ॥ ११ ॥ तस्मिन्मध्ये भवेद्रम्या श्रीमदुज्जयिनी पुरी । सुधार्मिकजनैः पूर्णा धन-धान्यसुखाकरी ॥१२॥ ससालगोपुरंस्तुं गैर्दीर्घ- खातिकया च या । अलंघ्या शत्रुभिर्मात्ययोध्ये [वागार ] 'केतुभिः ।। १३ ।। वसन्ति त्यागिनो यस्यां शूराः सद्व्रतशालिनः । 'नार्योऽतिरूपाढ्याः शीलाभरणमंडिताः ॥ १४ ॥ या बभौ चैत्यसद्गेह [कटोटकेतु] 4 पाणिभिः । स्वर्मुक्तिधर्मसिद्ध्यर्थमाह्वयंतीव नाकिनाम् ||१५|| आगच्छन्त्यो व्रजत्यश्च रूपाढ्या दिव्ययोषितः । पूजनाय जिनागारं भान्ति [ देवांगना इव ] ॥ १६॥ पश्यंति स्वगृहद्वार पात्रदानाय दानिनः । केचित्पात्राय दत्वान्नं प्रापुराश्चर्यं पंचकम् ।। १७ ।। केचिद्दृष्ट्वा तदाश्चयं पात्रदाने मति व्यधुः किंचिदप्राप्य सत्पात्रं विषादं यांति दानिनः ॥ १८ ॥ तत्रोत्पन्ना जनाः केचित्तपसा प्राप्य केवलम् । धर्मं प्रकाश्य लोकानां प्रजग्मुः शाश्वतं पदम् ॥ १६॥ केचिद्दीक्षाजिता येन वा पंचानुत्तरं ययुः । केचिद्वैवेयकं केचिच्छऋत्वं सुरपूजितम् ॥२०॥ केचिद्गृहिव्रतेनैव दिवं षोडशमावधिम् । व्यगुः सत्पात्रदानेन केचिद्भोगांकितां धराम् ||२३|| यत्रोत्पति लभतेऽहो पूर्वाजितशुभाः सुराः । मुक्ता ये क्षिप्तकर्माणः केचिद्धर्म्माय सत्कुले ||२२|| १. क. ख. घ. केचिच्च क्षिप्तकर्माणः । २. क. ख. ग. घ. ``योध्येव धामकेतुभिः - मात्रादोष अस्पष्टश्च । ३. क. ख. ग. घ. नरो ( ना नरो नरः) । ४. क. ख. ग. घ. कूटाग्र केतुपाणिभिः — मात्र दोषः । ५. क. ख. ग. घ. भान्त्यमरांगना इव - मात्रादोषः ।
SR No.002236
Book TitleYashodhar Charitam
Original Sutra AuthorN/A
AuthorBhagchandra Jain
PublisherSanmati Research Institute of Indology
Publication Year1988
Total Pages184
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy