________________
द्वितीयः सर्गः
सर्वव्रतमयं देवं विश्वसद्व्रतदेशिनम् । समस्त व्रतसंसिद्धये वंदेऽहं मुनिसुव्रतम् ॥१॥ अथात्र भारतेऽवंतीविषयोस्ति मनोहरः । धनधान्यादिभिः पूर्णो धर्मादयो धार्मिकैर्भतः ॥ २ ॥ सुधाभुजोऽपि यत्रोच्चैर्मुक्तिसाधनहेतवे । जन्मे च्छंति सुनिर्विण्णास्तस्य का वर्णनाऽपरा ||३|| केवलज्ञानिनो यत्र संघेन महता समम् । सतां धर्मोपदेशाय विहरति सुराच्चिताः ॥४॥ खेचरा नाकिनो यत्र मुनीनां तीर्थदेशिनाम् । ज्ञानोत्पत्तौ च निर्वाणे [पूजनाय प्रयांति चे ] ॥५॥ अनेक फलपुष्पादिन यंत्र मनोहरे । वने कुर्वंति सद्ध्यानं केचिच्च मुनिसत्तमाः ॥६॥ ज्ञानाभ्यासं बुधाः केचित् कृत्स्नेंद्रियमनोदमम् । त्यक्त्वा देहं च व्युत्सर्गं के चिन्मुक्ति प्रियाप्तये ॥७॥ ग्रामे ग्रामे विभांत्यत्र चैत्यगाराः मनोहराः । ध्वजैः कूटाग्रगैर्गीतनृत्यैर्धर्माध्वयो यथा ॥ ८ ॥ तत्रत्याः सुजनाः केचिद्दीक्षया यांति निर्वृतिम् । हत्वा कर्माणि केचिच्च स्वहमिन्द्रपदं दिवम् ॥ ६॥ केचित् सुपात्रदानेन भोगभूमि नरोत्तमाः । केचित्पूर्वविदेहे च लभन्ते भूजुजां कुलम् ॥ १० ॥ धार्मिका नाकिनो यत्र लभते जन्मसत्कुले |
•
१. क. ख. ग. घ. प्रयान्ति पूजनाय च --- मात्रादोषः । २. क. ख. ग. घ. नृत्तैर्धर्मान्धयो यथा ।