________________
द्वितीयः सर्गः इन्द्रचापनिभा लक्ष्मी [र्याऽध्र वा मोहमातृका] । अतृप्तिजननी निंद्या कथं स्याद्रतये सताम् ॥ ६६ ॥ शक्रजालसमं सर्व कुटुंबं पापकारणम् । धर्मविघ्नकरं धोमान् तत्कथं रज्जयेन्मनः ।। ६७ ॥ यमागारं वपुनिन्द्यं सर्वरोगैकभाजनम् । कामसर्पबिलं पुंसां कथं स्याच्चर्मणेऽशुभम् ॥ ६८ ॥ कृत्स्न दुःखाकरी भूते निस्सारे पारवजिते । चतुर्गतिमये दक्षः [संसारेऽस्मिन् रमेत् क:] ।। ६६ ॥ बुधा वैषयिकं सोख्यं तीव्राऽशर्मनिबंधनम् । काल कूटादिहामुत्र प्राहुः श्वभ्रगृहांगणम् ॥ ७० ॥ दैवादग्निव्रजेत्तृ प्तिमिंधनैव सरित्पतिः । नदीपूरैर्न च प्राणी सौख्ये वैषयकैः क्वचित् ॥७१ ॥ यत्किंचित्कर्मणा जातं संसृतौ विग्रहादिकम् । फेनोपमं च तत्सर्वं निस्सारं चञ्चलं नृणाम् ॥७२॥ मत्वेति प्राक्तनाश्चक्रिजिनेशादिनरोत्तमाः। त्यक्त्वा राज्यादिकं घोरं तपसाऽगुः स्फुटं शिवम् ।। ७३ ॥ चिंतयेन्मानसे नित्याद्यनुत्प्रेक्षाः स धीधनः । मुहुः संसारवैचित्र्यं शरण्यं मोक्षमेव च ॥ ७४ ॥ इत्यादि चिंतनात्कोत्यो घभूपस्य धनादिषु। वैराग्यं द्विगुणं जातं काल-लब्ध्या हृदि स्वयम् ।। ७५ ॥ ततो भूत्या स्वराज्यं मे समर्प्य विधिना नृपः । द्विधा संगं परित्यज्य दीक्षां जैनेश्वरी श्रितः ।। ७६ ॥ कुर्व स्तपोऽनद्यं ज्ञानाभ्यासं ध्यानं स्वनिग्रहम् ।
कषायविजयं सोऽनुदेशांश्च विहरेत्सदा ।। ७७ ॥ १. क. ख. ग. घ. लक्ष्मीरध्र वा- मात्रादोषः । २. क. ख. ग. घ. तां कथं । ३. क. ख. ग. घ. संसार को रतिं दधे-दोषः।