________________
प्रथमः समः खंगहस्तन पस्तत्र दुष्प्रेक्ष्यः पशुराशिभिः। भृत्यस्वजनमध्यस्थैदृष्टस्ताभ्यां तदा समम् ॥८६॥ ततोऽतिनिर्भयो वाग्मी नृपं प्रति विदांवरः। आशीर्वाद सुवाण्येनमाह संबोधहेतवे ॥७॥ राज्यं क्षोणारिचक्र नवनिधि बहुधा रत्नदेव्यादिपूणम् । संपत्त्रैलोक्यजाता त्रिभुवनपतिभिः सेविता प्राप्यतेऽत्र । पुण्या धीर्यत्प्रसादाद्विबुधजननता साऽस्तुते धर्मवृद्धिः । सौख्यं तीर्थेशशक्रपदजनितमतिक्रान्तपापं शिवं च ॥८॥ अपश्यत् तौरनृपो यत्नात्साश्चर्यो लक्षणांकितौ। . सुदर्शिक्रमतोमस्तकाग्र्यं . सामुद्रिकान्वितो ॥६॥ किमिमो रतिकंदपों सशरीराविहागती। किंवाऽमृतभुजौ किं वा सुंदरौ खचरात्मजौ ॥१०॥ [किमुवा भागिनेपों मे] जातो जैनमते यती। यतो[मे]निर्दयस्यासीन्मनः स्नेहपरायणम् ॥१॥ अथवा किं वृथालापरहं पृच्छामि तो प्रति । वृत्तान्त येन. मे नश्येत् संशयो मनसोद्भुतम् ॥१२॥ को भवंतौ च [कुतः] कस्मादिहागतौ केन हेतुना। बाल्येऽपि कृतमत्यन्तं साहसं वृत्तगोचरम् ॥३॥ ब्रह्मचारी ततोऽवादीद् यथांधस्याग्रनर्तकम् । गानं च बधिरस्यापि[I] धर्माख्यानं च रागिणः ।।१४।।
१. ख. ग. खड्गहस्तो। २. घ. सुवाण्येव महासंबोधहेतवे। ३. क. ख. ग. मेऽथवा किमु भाग्नेयो [भागिनेयो]" -मात्रादोषः ४. मात्रादोषः। ५. अस्पष्टार्थः।