________________
यशोधरचरित्रम् संसारातापसंतप्तैस्तपोऽत्र क्रियतेऽनघम्। तच्छांत्ययं वदत्यार्य उपसर्गजयं तपः ॥७४॥ तपसोदयमानीय हत्वा कर्म पुराजितम्। आवां चेदागतं तदभ्युदयं लाभोऽत्र नान्यथा ॥७५॥ यस्मिन् देशे क्षणे कर्मोदयाज्जातं सुखासुखम्। अवश्यं तच्च भोक्तव्यं हर्ष-शोकेन किं सताम् ॥७६॥ अनंतांगान्यतीतानि संसारेऽत्र यथावयोः। . तथवाद्य तु 'चावाम्यां रक्षणोयाः शुभा गुणाः ॥७७॥ धर्मादृते शरण्यो न कोप्यसातोदयान्नृणाम् । अतः कार्यः शरण्योऽसो यत्नात् सिद्ध्यै मया त्वया ॥७॥ मातुर्वच: समाकर्ण्य वभाष भगिनी वचः। परोक्षं किमिदं भ्रातर्न प्रयात्यधपूर्वकृत् ॥७॥ श्वानादिकभवे यच्च दुःखं भुक्तं निरंतरम्। नत् किं नो विस्मृतं कर्मपाकाज्जातमिदं हि किम् ॥८॥ उपसर्गेण योऽस्माकं ह्यनंताशर्मकारणम् । हंति प्राक्तन दुष्कर्म स भ्राता कृत्रिमो महान् ॥१॥ क्वचित्सूर्यस्त्यजेद्धाम स्थिरत्वं चासुराचलः। '.. तथापि न श्चलेच्चित्त नाहङ प्रतिष्ठितम् ।।२।। सप्तधातुमयं देहं 'दूरीकृत्यानयेच्छुभम् । यो मह्यमृद्धिसंपन्नं तस्य को' विप्रियं वदेत् ॥८॥ इत्यन्योन्यं सुनिर्विष्णो विवेकान्वितमानसो।। प्राप्तौ तद्गृहमाश्वाशयं तौ तौ स्ववचोऽमृतैः ।।४।। सर्वदुःखाकरीभूतं बीभत्सं च भयानकम् ।
कारागारनिभं घोरं यमस्थानमिवापरम ॥८॥ १. क. ख. ग. तथैतद्धातु चावाभ्याम् । २. क. ख. ग. भ्रातृवचः। ३. क. ते।