________________
प्रथमः सर्गः
दृष्ट्वा मत्विदं योग्यं रागिणां न कदाचन। सद्ब्रह्मचारिणां पुंसां ततोऽसौ निर्गतो द्रुतम् ॥६४।। दृष्ट्वा सन्तं श्मसानं स पापभोरुभयप्रदम्। शवाग्निदग्धभूभागं वैराग्यादिक्विर्धनम् ॥६५॥ तत्र सत्प्रासुके देशे शोणितास्थ्यादिदूरगे। संघेन महता सार्द्ध मुपविष्टो गणग्रणीः ॥६६॥ कृतेर्यापथसंशुद्धिः सुखासीनो मुनीश्वरः। : अस्थाद्यावत्तदागत्य नत्वातत्पादपंकजम् ॥६७।। तदनुज्ञां समादाय भिक्षार्थ तसुरं प्रति। निर्गतोऽभयरुच्याख्योऽभयमत्या समंततः॥६॥ भिक्षापात्र समादाय खंडवस्त्रेण मंडितः। प्रसन्नोऽप्यतिगंभोरो रूपेण मन्मथोपमः ॥६६॥ गच्छन् मार्गे सुधीयत्नादोर्यापथ्यात्तलोचनः । निर्वेदं भावयंश्चित्त दृष्टं तैः पापिभिरच तत् ॥७॥ परस्परं तदाहूय देव्याः शांतिविधाविदम् । योग्यं युग्मं वतेत्युक्त्वा गृहीतं तश्च तद्भटैः ॥७॥ श्रुत्वा तेषां वचः क्रूरं भीरुप्राणिभयावहम् । . भगिन्याश्वासनायाह क्षुल्लको वचनं शुभम् ॥७२॥ भगिन्यत्र न भेतव्यं किं करिष्यति भूपतिः । यमो वाति खलो,रुष्टो यतोनां यत् चेतसाम् ॥७३॥
१. प. मत्वात्विदं । २. घ. ईर्यापथात्त ... ३. घ. दृष्टांतः । ४. क. विधादिदम्।