________________
यशोधरचरित्रम्
ततस्तेन तदर्थं च प्रेषिताः सुभटाः खलाः। तेऽगुरष्टदिशास्तस्मान् नेतुं तत् क्रूरविग्रहाः ॥५२॥ एतस्मिन्नेव प्रस्तावे तपसा कृशविग्रहः। गुणनाप्य कृशै/रैस्त्यक्तसंगैः शुभाशयः ॥५३॥ शून्यागारगुहारण्यश्मसानादिकृतालयः। स्वल्पलोभातिगैविश्वराज्यलोभोत्सुकैः बुधैः ॥५४॥ त्यक्तरागैर्महारागयुतर्मुक्तिवधसुखे। ... क्षमावद्भिः स्वकर्मारिकृतकोपैजितेन्द्रियः ।।५५॥ ध्यानाध्ययनसंसक्तैः कामहस्तिमृगाधिपः । तृणस्त्रोलोष्ठहेमादिसमस्तद्भिगंता शुभैः ॥५६॥ मानापमानशपिशर्मसादृश्यमानसैः । । परीषहजयोद्युक्तैः कायक्लेशपरायणः ॥५७।। पारगः द्वादशांगाब्धेर्धर्मशुक्लादितत्परैः। सर्वसत्वदयोपेतैः शश्वद्धर्मोपदेशकैः ॥५८॥ कृत्स्नप्राणिहितोयुक्तै रत्नत्रयविभूषितः । मलेन लिप्तसर्वांगः वपुसंस्कारवजितैः ॥ ५६।। अवद्यः लवतो भीतैरसंख्यगुणसागरैः। ' मूलोत्तरगुणाधारर्दष्ट तत्त्वैर्मुनीश्वरैः ॥६०॥ साधू संघाधिपो धीमान् सुदत्ताख्यो महामुनिः।। आचार्यो विहरन् देशान् भव्यसबोधहेतवे ॥६१।। क्रमेण तत्पुरात् बाह्मवने वृक्षसमाकुले। सरागजनसंसेव्ये रागाद्ये ह्यागतो यतिः॥६२॥ स्त्रीजनादिसमाकीर्ण कामुकैः परिसेवितम्। इद्रियाह्लादकं रम्य सराग वनमुत्तमम् ॥६२।।
१. क. प. लोभात्सुखैः। २. ब. ग. समहद्भि ।