________________
प्रथमः सर्गः 'अथाह भैरवानंदो यद्यद्वांछसि भूपते । तत्सर्वं ते ददाम्याशु यदि यद्यद्वदाम्यहम् ॥४१॥ विश्वं तत्तत्करोष्येव भूत्वा निःशंक एव च । परेषां वचनं त्यक्त्वा सर्वकार्यविधौ क्षमः ॥४२॥ पुरादक्षिणदिग्भागे चंडमार्याः मठे वरान् । देव्या आनय पूजाय जीवयुग्माननेकशः ॥४३॥ जलस्थलनभश्चारिणो नयुग्मेन संयुतान् । तैर्देवीय जनात्तेऽद्य शीघ्र विद्या प्रसिद्धयति ॥४४॥ . यथोन्मत्तो न जानाति रत्नानां च परीक्षणम् । तथा भूपोऽद्य धर्माणां मिथ्यापाकेन मुढधीः ॥४५॥ . तद्वाक्ये निश्चयं कृत्वा स्वभत्यान्प्रत्य ऽ भाषत। मिथुनानां नयध्वं भो ! बहून् देव्यः मठेगिनाम् ॥४६॥ ततोऽमा परिवारेण गत्वा भक्त्या तदालयम् । देवी. मूढजनाराध्या रोद्राक्ष्यति भयंकरा ॥४७॥ निर्मिता चांगिनो हेतुं मारीसाऽशुभकर्मणा। निद्या भूपतिना दृष्टा करंकाकृतिधारिणी ॥४८॥ मूर्द्धना नत्वाशु तां राजा खड्गपाणिजन तः। तन्मंडपस्थ-योग्यासनेऽस्थात् कापालिकान्वितः ॥४६॥ अजामहिषपक्ष्यादिजीवराशि विलोक्य सः। । ततस्तत्कार्यसंसिद्ध्यै. प्रोवाच तलरक्षकम् ॥५०॥ प्रतित्वमानयास्या हि यजनाय नयुग्मकम्। सुन्दर लक्षणैः पूर्ण शीघ्र प्रीतिकरं वरम्॥५१॥
१. क. ख. अन्वाह ।
ग. अत्राह। २. घ. देवी। ३. घ. मा सह परिवारेण । ४. घ. मदाल यम । ५. घ. रोद्राक्षति ।