________________
यशोधरचरित्रम्
किन्तु . धम्मविवेकादिहोनस्तादृग्जनान्वितः। । स्वेच्छाचारयुतो धीमान्, सर्वदा सौख्यलोलुपः॥३१॥ जटाजूटशिरोदंड: करश्चर्मास्थिभस्मभिः । भूषितोऽ यातिरौद्रात्मा विषयासक्तधी: शठः ॥३२॥ कथापादुकयोपेतः कृतशृंग महाध्वनिः। स्वपरिवारसंयुक्तो मृषावादकृतोधमः ॥३३॥ कापालिको दयाहीनो भैरवानंद नाममा। . आडम्बरयुतस्तस्मिन् पुरे जातु समागतः ॥३४॥ रामादयो मया दृष्टा: पांडवा: सयुगादयः। चिरंजीव्यहमेवाऽत्र चेति वक्ति जनान्प्रति ॥३५॥ मारिदत्त न तद्वार्ती श्रुत्वा प्रेक्ष्म स्वमंत्रिणः । आकारित: स मायावी तत्यााप्यागतो द्रुतम् ॥३६॥ राजोत्थाय नमस्कारं कृत्वा सन्मानपूर्वकम्। दापितं ह्यासनं तस्मै कोलिकाय शठात्मने ॥३७॥ ब्रूतेऽसौ. . नृपमुद्दिश्यासत्यवाचोद्यतस्तदा । प्राक्तनाः पुरुषाः सर्वे मया दृष्टा बलादयः ।।३८॥ स्फुरति विश्वविद्याश्च मयि पुंसां क्षमोप्पहम् । निग्रहानुग्रहो कत नासाध्यं मम किंचन्॥३६॥ . इति तद्वचनं श्रुत्वा तं प्रत्याह महीपतिः। .. विद्यां खगामिनी देहि खे स्वेच्छागमनाय मे ॥४०॥ .
१. क. ख. ग. सदाक्षसुखलोलुपः । २. घ. घातिरौढात्मा पापी... ३. क. ख. ग. घ. शृगकृत "मात्रादोष । ४. ख.याति ।