________________
प्रथमः सर्गः प्राकारगोपुरस्तुंगैनित्यं [प्रति] विभाति यत्। दीर्घखातिकया सौधाग्रस्थकेत्वादिपंक्तिभिः ॥२०॥ चैत्यागारमहाकूटाग्रस्थध्वजकररिव। आह्वयंतीव यद्भाति पुण्यभाजां च नाकिनाम् ॥२१॥ केचित्सम्यग्वतोपेता: केचिज्जैनाश्च नामतः । केचिन्मिथ्यापथे लग्नास्तत्रेति स्युः प्रजास्त्रिधा ।।२२।। गच्छन्त्यः श्रोजिनागारं हाव-भाव विभूषिताः। शोभन्ते योषितो यत्र देवनार्य इवापराः ।।२३।। गीतवाद्यस्तुतिस्तोत्रैर्जयघोषैश्च नर्त्तनैः। ---- विभ्राजते जिनागारा इव धर्माब्बयो जनैः ॥२४॥ लोकं ते स्वगृहद्वारं यत्र दानाय दानिनः। मुहः केचिद् दनित्यं दानं पात्राय सौख्यदम् ॥२५॥ रत्नवृष्टि सगलोक्य केचित्[सत्] पात्रदानजाम्। जैनाः कुर्वन्ति सद्भावं, पात्रदाने तथाऽपरे ॥२६॥ त्यागिनो भोगिनो यत्र वसन्ति गृहनायकाः । ज्ञानिनः सव्रतोपेता रामाः शीलादिभूषिताः ॥२७॥ यत्रत्याः मनुजाः केचित् हत्वा कर्मतपोबलात् । मोक्षं ग्रैवेयकं यांति नाक केचिच्च सुव्रताः ॥२८॥ इत्यादिवर्णनोपेते मारिदत्तः नृपः पुरे। निर्जितारातिरत्यंतसुंदरः [सत्]'प्रतापवान् ॥२६॥ दाता भोक्ता कलायुक्तो लक्षणान्वितविग्रहः । बहुसंपत्परीवारो धीरः सामंत-सेवितः ॥३०॥
.
१. क.ख. ग. प. हि इत्यत्र मात्रादोषः । २. हायस्थितपताकापंक्तिभिरित्यर्थः। ३. क. ख.ग.-आह्वन्तीह । ४. क. गच्छन्ति। ५. प.श्राविका। ६. क. ख. ग. घ. सुपात्र मात्रादोषः । ७. क.ख.ग. क. स्यात्-मात्रादोषः ।