________________
१३६
यशोधरचरित्रम्
ग
हा देवतार्चने पिष्टे कुक्कुटे मारित यदि। इत्थं पितृजनः प्राप्तो महापापाद् भवावलीम् ॥३॥ . सखे ऽहं किं भविष्यामि जलस्थलनभश्चराः। बहुधा पापिना येन मयात्मना निपातिताः।।४।। विलापमतिकुर्वाणः श्रेष्ठिना भणितो नृपः। विलापं किं मुधा राजन् [कुरुषे]' कातरांगिवत् ।।८५॥ शक्तोऽत्र कोऽपि न त्रातुं देहिनः प्राक् स्वकर्मतः। धर्म जिनोदितं मुक्त्वा सर्वजीवहितावहम् ॥८६॥ राजा ऽ.वादीत्ततो मित्र सखे विज्ञाप्यतां मुनिः। तथा यथाद्य हान्य मे शीघ्र दत्ते तपोऽद्भुतम् ॥७॥ ज्ञात्वा दीक्षोद्यतं सो नु श्रेष्ठिनैवं निरूपितम्। . सूनवे दीयतां राज्यं पश्चाद्भव्यावयोस्तपः ॥८॥ आकर्ण्य तद्वचो राजा प्राह निर्वेदतत्परः। .. निर्गच्छतो गृहावसिान्मे किं सून्वादिचिंतया ।।८६ ।। मित्रेणोक्तस्ततो भूपो नो ऽहं वच्मि तमोहतः। किन्तु वाक्यमिदं सारं प्रजानां रक्षणाय मे ॥६॥ पुनः राजाह लाद्य मित्र मंझुं सुताय मे। ददस्व निविलं राज्यं यतः स्यान्मम दोक्षणम् ॥१॥ एवं यावत्समालापो दीक्षायै वर्तते वने । .. . तावत् श्रुतो जनालापात्स तदंतःपुरादिभिः॥१२॥ . ततो दुःखभराक्रांता त्यक्त्वा स्वांगर्द्धमंडनम् । आजग्मुस्तद्वनं म्लाना रटंत्यो राजयोषितः ॥३॥
१. क.व. ग. घ. करोषि। २. दीवामित्पर्षः।