________________
सप्तमः सर्गः कृत्वा पूर्व तपश्चांते संन्यासं तद्विपाकतः। .. ब्रह्मोत्तरे विमानेऽभूद्दीप्तो देवो महद्धिकः ॥७०॥ क्रीडां कुर्वन् स्वदेवीभिः क्रीडाद्री भवने वने। शृण्वन् गीतं कलं ध्वानं पश्यन्नृत्तं मनोहरम् ॥७॥ . भजन्पूजन्जिान्द्राणां कल्याणेषु जिनालये। निमग्नः शर्मवाद्धों समुदास्ते तत्र पुण्यंतः ॥७२॥ . याऽमृतादिमहादेवी तेंऽबा हत्वा पति विषात्। निःशीलाद्योदयाद्भुक्त्वा तीव्रकुष्ठादिजां व्यथाम् ॥७३॥ रौद्रध्यानेन मृत्वागाच्छ्वद्मध्वांतप्रभाह्वयम्। . छेदनं भेदनं शूलारोहणं ताडनं महत् ।।७४॥ मारणं चाग्निनिक्षेपं वैतरण्यादिमज्जनम्। तत्रेत्येवं महादुःखं जानासावतिष्ठते ।।७५॥ आसोद्यस्त्वत्पिता ख्यातो यशोधरमहीपतिः। तस्य चन्द्रमती माता चंडिका-भक्तिरंजिता ॥७॥ चंडिकाग्रेऽद्य शांत्यर्थ मूढाभ्यां पिष्टकुक्कुटः । ताभ्यां हतः स्वहस्तेन विघ्नहान्ये च पापतः ।।७७॥ तन्महापापपाकेन त्वन्मात्रा तौ हतौ बलात्। . घोरदुःखाकुलां तिर्यग्योनि चेमां गतौ ततः ॥७॥ तद्यथात्र शिखिश्वानी जाहकाही झपाझषौ। अजावजजरंताख्यी ततोऽभूत्वा च कुक्कुटौ ॥७॥ मयूरादिभवे राजंस्त्वया संतापितो हतो।
भुक्तं दत्तं च तत्तप्त्यै ह्यपरेभ्यस्तदामिषम् ॥०॥ • ततस्त्वया हताविष्टौ कुक्कुटो स्वल्पधर्मतः ।
जातो त्वदात्मजो पुष्पावल्यां तो शर्मसंयुती॥१॥ मुनिनोक्तं समस्तं तच्छ त्वा भूपो भयातुरः । वयस्यास्यं तदा पश्यन् विललापाघशोचनम् ॥१२॥
..