________________
१३२
यशोधरचरित्रम्
उद्ध हिमहीं वातं स्तंभितुं तेऽपि न क्षमाः । मुनेः पराभवं कर्तुं कुत एव भवादृशाः ॥ ३४॥ तपोबलद्धयुक्तोऽयं दैवात्कोपं व्यधाद्यदि । ततः कुर्यात्क्षणाद्धेन भस्मराशि भवादृशाम् ||३५|| अतः प्रसुप्तसिंहस्य यथा नोत्थापनं नृप । हितमाकांक्षिणा युक्तं तथैवास्य महामुनेः || ३६ || राजन् जानासि गर्वी त्वं भूपोऽहं भूमिपैर्नुत । शृण्वन्नास्य कथां वक्ष्ये भवद्गर्वादिहानये ||३७|| कलिंगदेशनाथोऽयं सुदत्ताख्यो महीपतिः । धीरो दक्षो विचारज्ञः प्रतापी यशसा महान् ||३८|| कुर्वतो योवने राज्यमथैतस्यैकदा पुरः । आनीय कोट्टपालेन चौरो वस्तुयुतो धृतः ॥ ३६ ॥ त्वा प्रोक्तमिदं नाथ हत्त्वैकं गृहनायकम् । अनेनेह हृतं वस्तु ह्यानीतोऽतस्त्वदंतिकम् ॥४०॥ तत्स्वरूपं निवेद्यातः पृष्टा राज्ञा श्रुतान्विताः । तस्करस्यास्य हि विप्राः क्रियते किं प्रकथ्यताम् ॥ ४१ ॥ उक्तं तैश्चत्वरे नीत्वा हस्तपादप्रखंडनम् । नासिकाकर्ण [ विच्छेदं ] ' कार्यमस्याऽक्षिनाशनम् ॥४२॥ राज्ञोक्तदंडनादस्य पापं कस्य महद्विजाः । आस्ते तव तत्पापं भूप नान्यस्य दंडजम् ||४३|| आह राजा ततोऽस्यैव मोचनादेश एव हि । कस्यान्यायभवं' प्राहुस्ते तवान्यस्य न क्वचित् ॥ ४४॥ ततस्तेषां वचः श्रुत्वा पापभीतः स्वमानसे । राजन् राजाश्चिदं दध्याद्भोग निर्विष्णमानसः ॥ ४५ ॥
१. क. ख. ग. घ. कर्णछेदं च ।
२. क. कान्ययश्चभवं घ. कस्यानायभवं ।