SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ विष्टादिनिचित कार्य शुचित्वं क सुधीर्ववेत् ॥२१॥ अतस्तपो विशुद्धानां यतीनां ब्रह्मचारिणाम्। दयात्मनां सदा शुद्धिः कामिनां नासतो क्वचित् ॥२२॥ यदि स्नानेन शुद्धिश्चेद्राजस्तहि मते तव। . बंद्या मत्स्यादयः स्युर्धीवरां शुद्ध यै न चापरे ॥२३॥ अतोऽत्र निःस्पृहा वंद्या अंगसंस्कारवर्जिताः। यतीन्द्रां निर्मला नान्ये गुरवो धीमता क्वचित् ॥२४॥ यदन्यच्च त्वया प्रोक्तं नाग्म्यादित्वममंगलम्। तद्विरुद्ध यतो नाग्न्यं सहजं सर्वदेहिनाम् ॥२५॥ नग्नोत्र याति जीवोऽयं नग्नो याति भवांतरम्। अतः सर्वगतं नाग्न्यं मान्यं स्याद्विश्वदर्शनैः॥२६।। विरागिणो दृढब्रह्मचारिणो ये मुनीश्वराः। सृणीकृतजगत्सारास्त्यक्तं तैरंबरादिकम् ॥२७॥ स्त्रीपरीषहभग्ना येनापाक कुलिंगिनः । तद्विकारं क्षमास्तैश्च वराकैश्चीवरं धृतम् ॥२८॥ सुरेशत्वं जिनेशत्वं कैवल्यं शाश्वतं पदम् । चक्रेशत्वं जिनोक्तेन नग्नत्वेनात्र साध्यते ॥२६॥ [नग्नाश्चापि'] न ते नग्ना ये शीलवसनावृताः। वस्त्रावृताश्च ते नग्ना ये शीलव्रतदूरगाः॥३०॥ मतः पूज्यं सतां नाग्न्यं मंगलाय जगत्त्रये। ते नाग्ना मुनयो येते वंद्या मुक्त्यै न चापरे ॥३१॥ भूपापरं त्वया यत्प्रोक्तं कार्योऽस्य मया वधः। तन्मे भवद्वचो भाति बालोदितमिवाशुभम् ॥३२॥ यतश्चालयितुं शक्ता ये मेरु पाणिना भटाः । क्षीराब्धि सहसा पातुं चन्द्रसूयौं तथाशितुम् ॥३३॥ १. क.ख. म.प. नग्नेनापि ।
SR No.002236
Book TitleYashodhar Charitam
Original Sutra AuthorN/A
AuthorBhagchandra Jain
PublisherSanmati Research Institute of Indology
Publication Year1988
Total Pages184
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy