________________
१३.
यशोधरचरित्रम्
राज्ञाश्लिष्य ततः पृष्ट्वा क्षेमं देहकुटुंबयोः । सन्मानितो महास्नेहतांबूलाद्यैश्च जल्पनैः ॥१०॥ राजानुभणितस्तेन श्रेष्ठिना याय भूपते। अस्मादेहि वनं यावो वंदितुं मुनिनायकम् ॥११॥ तच्छु त्वाह स रुष्टो नु मया खेटकनाशतः। निग्रहार्हस्य यस्याद्य मित्रकार्योऽत्र निग्रहः ॥१२॥ अस्नातस्याशुचित्वस्य नग्नस्यामंगलात्मनः । तस्य मां वंदनां कारयसि त्वं भूमिपर्नुतम् ॥१३॥ वणिजेदं ततो ध्यातं मंगलायैव दर्शनम्। साधोर्यज्जगतां स्यात्तत्पापिनोऽस्यान्यथा ध्रुवम् ॥१४॥ सन्मार्गनिंदने क्वध्वपोषणे साधुपीडने। . . अत्रोपेक्षानुवृत्तिश्च न कार्या पापकारिणी ॥१५॥ मित्रादीन् पाप [निरतान्] शक्त्या यो न निवारयेत्।। हृदाप्यतदयांशंस दुर्गति याति तैः समम् ॥१६॥ . घ्यावेत्यनुजगौ भूपं श्रेष्ठी जैनागमादिवित्। राजम्निद त्वया प्रोक्तमस्नात् यतयोऽमृजः ॥१७॥ अशुचयः तदसत्यं वचो निद्यं यतः सुधिः। '. अनेकधा ब्रह्मचर्यं तपो मंत्रजपादिभिः ॥१८॥ सुराकुंभा यथा धौताः स्युनं शुद्धाः सरिज्जलैः। मिथ्यात्विद्रियलोभायैस्तथांतर्मलिनो जनाः ॥१९॥ घृतकुंभा यथा शुद्धा विना नीरैस्तदा सदा। यतिनो बाह्य जल्लाट्या वृत्ताद्यतोऽतिनिर्मलाः ॥२०॥ शुक्रशोणितसंजाते सप्तधातुमयेऽशुचौ।
१. पुण्याय इत्यर्थः। २. क. ख. ग. घ. पापकुर्वाणान् । ३. शुद्धिरनेकधा इत्यर्थः ।