________________
सप्तमः सर्गः
नेमि धर्मरथे चक्रनेमि वंदेऽवहानये। ... ' मुक्तिकान्तं जगन्नाथं कामदं कामघालकम् ॥१॥ अथ मद्राज्यपट्टोत्सवे [भुक्त्यै] यशोमतिः। . श्वभिः पंचशतैः साद्ध मृगयाय वनं ययौ ॥२॥ सोऽ द्राक्षीद्वहिरुद्यानेऽशोकवृक्षतले स्थितम्। ध्यानारूढं तपः क्षामं सुदत्त मुनिपुंगवम् ॥३॥ तदर्शनेन भूत्वा स [कोपेनोद्दीपितो]ऽग्निवत् । मृगया निष्फलामेऽद्य भविष्यत्यस्य दर्शनात् ॥४॥ इत्युक्त्वा[स्व]धृतं श्वानं मुमोच हतये मुनेः । सर्वैर्भस्तिमालोक्य मुक्ताः श्वानाः समंततः ॥५॥ तेऽतिक राः करालास्या वक्रदंष्ट्राहतौजसः। यतेर्माहात्म्यतो जाता 'नागा वा मंत्रशक्तितः ॥६॥ गत्वा प्रदक्षिणीकृत्य तं मुनीन्द्रं शुनां ततिः। अधः शिरो विधायाश्वास्थाद्वा व्रतजिघृक्षया॥७॥ अत्रांतरे यतीशं तमागतो वंदितुं शुभात् । कल्याणमित्र नामास्य परं मित्रं स भूपतेः॥८॥ सार्थवाहो धनी दक्षो दृग्ज्ञानव्रतभूषितः। यशोमतिं ददर्शाशु तत्र सोऽपूर्ववस्तुना ॥६॥
१. क. ख. ग. घ. भुक्त्य र्थ । २. क. ख. ग. घ. कोपाऽग्निदीपितो। ३. क. ख. ग. घ. आत्मघृतं । ४. आश+अस्थात् इति सन्धिः ।