________________
१२८
यशोधरचरितम् अहिच्छत्रकुमाराय युवराजपदं च मे। राजाभयमति कन्यामिमां दास्यति संमुदा ॥१३४॥ इति विविधमशर्म षड्भवं [संविभुज्य] ___विहितदुरितपाकात्त्राप्य नृत्वं धनाढ्यम्। अनुविमलवृषात्कौमारसौख्यादि वार्धा,
सुभगनृपतिमग्नौ संमुदा स्वं किलावाम् ॥१३५॥ . . धर्मो विश्वगुणाकरोऽसुखहरो धर्माश्रिताः सज्जनाः,
धर्मेणैव किलाप्यतेऽद्भुतसुखं धर्माय सिद्ध यै नमः। . धर्मान्नास्ति हितंकरस्त्रिभुवने धर्मस्य मूलं दृग
धर्मे चित्तमहं दधेऽ घभयतो हे धर्म रक्षस्व माम् ॥१३६।।
इति भट्टारकश्रीसकलकीतिविरचिते यशोधरचरित्रे कुक्कुटोत्पत्ति धर्मलाभोऽभयरुच्यभयमति
जन्मवर्णनो नाम षष्ठः सर्गः।
१. क. ख. ग. प. संविभुक्त्वा ।