________________
षष्ठः सर्गः .
सत्युक्त्वा भगवन् कृष्णा हिं वावधं कुलागतम्। धर्मनामधरं वाचा चेतसा कर्मणा मया ॥१२॥ दृष्टिपूर्वश्च धर्मोऽणुगुणशिक्षाव्रतर्भवः। जिनोक्तो निखिलो मुक्त्यै गृहीतो दुर्लभो भुवि ।।११२।। राजनिति निजं श्रुत्वा चरितं यतिनोदितम्। आवाभ्यां दुर्लभो धर्मो गृहीतो हृदि सोऽप्ययात् ॥१२३॥ वंदनायै मुनेस्तोषातिरेकेण तदाशुभम्।। .लपितं पिंजरस्थाभ्यामावाभ्यां मधुरं स्वरम् ।१२४।। तदस्मद्रटितं श्रुत्वां मत्सुतेन महीभुजा। स्थितेन कुसुमावल्या राज्या मारति धामनि ॥१२५॥ स बाणं चापमादाय पश्येत्युक्त्वा प्रिये मम । शब्दवेधित्वमाकृष्य धनुर्युक्तः शशेऽशुभात् ॥१२६॥ तेनैकेन मृति लब्धा तद्धर्माशोपलं भतः । संप्रविष्टौ बतावां मत्सूनो र्योदरे तदा ॥१२७।। गर्भमाहात्म्यतो जाताऽरुचिर्मातुः पलाशने । सत्वानामभये दानेऽप्य भूद्दोहलको महान् ॥१२८।। सर्वग्रामेषु देशेषु विधायाभयघोषणम्। . राजाज्ञया ह्यमात्यायैस्तस्याः संस्मारितस्तदा ।।१२६॥ कृत्स्ना मनोज्ञताधारे कृमिकोटिशताकुले । उषित्वा तत्र वीभत्से निंद्येऽधो मस्तकेन च ॥१३०॥ सांधिकान्नवमासानशुचिद्वारेण निर्गतौ । कथंचिदुःखतश्चावां शुभलग्नादिके दिने ।।१३१।। ततो मेऽभयरुच्याख्यं कृतं पित्रा च बंधुभिः । सन्नामाभयमत्याख्यमस्या दोहलकान्मुदा ।।१३२।। मुग्धत्वापगमे प्राप्याध्यापकं धोविकाशतः । स्वल्पकालेन शास्त्राब्धेरावां पारंगतौ शुभात् ।।१३३।। .