________________
यशोधरचरित्रम् अंते सल्लेखमा कार्या हत्वा मोहं गृहाश्रमम् । . : सर्वहारं च मोक्षाय मुक्तिश्री दूतिका परा ॥१०॥ इमं गार्हस्थ्यधर्म यो विधत्ते भावपूर्वकम् । प्राप्य नाकं नृराज्यं च क्रमाद्याति शिवालयम् ११०॥.. त्यक्त्वा पापं च मिथ्यात्वं भव्येमं गृहिणां वृषम्। .. गृहाण भावशुद्ध याद्य मुक्त्य हिंसादिवर्जितम् ॥१११॥ . मुनिनोक्तं वचःश्रुत्वा चंडकर्मा जगौ ततः। यद्भवद्भिः ममाख्यातं तत्सर्वं भगवन्मया ॥११२।। : अहिंसावर्जमग्राहि यन्मे हिंसाकुलव्रतम् । परंपरासमायातं पितृवंशसमुद्भवम् ॥११३॥ .. अनूवाच वचो योगी कुलायातं यथाऽशुभम् । .. दारिद्र यादिमहाकष्टं प्राप्यारोग्यं धनं बुधैः ॥११४॥ ... त्यज्यते च तथा त्याज्यं त्वयेदं कुलजाखिलम्। ... हिंसादिकञ्च मिथ्यात्वं शीघ्र हालाहलोपमम् ॥११५॥ यदीमं कुलधर्म चेन्न त्वं [त्यजसि] साम्प्रतम् ।। यथेदं कुक्कुटद्वंद्व प्राप्त तीव्रभवावलीम् ॥११६॥ ... न मुंचेत् कुलजं धर्म निंद्यं सत्वक्षयंकरम् । तथा त्वमपि संसारे संप्राप्यसि न चान्यथा ॥११७।। साश्चर्यः सोऽवदन्नाथ तामिदं प्राप्तवत्कथम् । [सर्वथा ] श्रोतुमिच्छामि सविशेष स्वकौतुकात् ॥११८॥ यशोधरभवाच्चंद्रमत्या या भवपद्धतिः। सर्वोदिता मुनींद्रेण प्रागुक्ता विस्तरेण च ॥११॥ तयोर्भवावली श्रुत्वाऽचेतनांगिघ्नपापजाम् । दुःखभीत्या महापंकग्रस्तांगोऽन्ववदत्सुधीः ॥१२०॥
१. ख. ग. घ. जहासि। २. क. ख. ग. सर्वे