________________
षष्ठः सर्गः
यः स्वनारीं विनान्येषां रामाः पश्यति मातृवत् । धीमान्वेश्याद्यनासक्तस्तस्य तुर्यमणुव्रतम् ॥१७॥ क्षेत्र वास्तु धनं धान्यं दासी - दासश्चतुष्पदम् । आसनं शयनं वस्त्रं भांडं चेति बहिर्दश ||१८|| हत्वा लोभं व्यधात्संख्यां यो बाह्य दशवस्तुनि । स संतोषसुधां पीत्वा पंचमाणुव्रतं भजेत् ।।१६।। क्रियते यात्र मर्यादा देशाटव्यादिय । जनैः । बुधैर्दश दिशां सा प्रोच्यते दिग्विरतिः स्फुटम् ॥१००॥ कार्यं विनाध हेतुश्च प्रारंभस्त्यज्यतेऽत्र यः । हिंसादानादिकः सानर्थदंडविरतिः स्मृता ।। १०१ ।। . सर्वसंधानकं कंद मूलं कोटयुतं फलम् । नवनीतं च पुष्पं च निशाहारं चतुर्विधम् ॥१०२॥ अगालितं जलं तत्रं व्यंजनान्नादिकं त्यजेत् । दिनद्वयस्थितं धीमानन्यद्वागमनिंदितम् ॥१०३॥ अन्नपानादिभोगानां या संख्या क्रियते सदा । भूषणाद्युपभोगानां स तृतीयं गुणव्रतम् ||१०४ ॥ गृहपाchaaथीग्रामादिकोशादिभिदिशाम् । विधीयतेऽत्र मर्यादा या सा देशावकाशिकम् ।। १०५॥ सामायिकाभिधं शिक्षाव्रतं हि द्वितीयं बुधैः । कार्यं कालत्रये नित्यं पापघ्नं धर्मकारणम् ॥१०६॥
अष्टम्यां च चतुर्दश्यां कर्तव्यः प्रोषधो वरः । गृहारंभाऽखिलं हत्वा स्वर्ग मुक्त्या दिसौख्यदः ॥ १०७॥
मुनींद्राय सदा देयमाहारादिचतुर्विधम् । दानं शक्त्या च भक्त्या च स्वर्गमुक्तिसुखाकरम् ॥१०८॥
१. बारंबारमित्यर्थः ।
१२५