________________
यशोधरचरित्नम्
ज्ञात्वेति चंडकर्मा त्वं हित्वा पापं हि दुस्त्यजम् । कुरु धर्म जिनेन्द्रोक्तं विश्वशर्माकरं परम् ॥६५॥ अथ प्राक्षोन्मुनि नत्वा चंद्रकर्मातिशुद्धधीः । भगवन् गृहिणां धर्म कृपां कृत्वा ममादिश ॥८६॥ ततो यति गौ भद्र स्थिरीकृत्याशयं शृणु। वक्ष्यते श्रावकाचारजं समासेन सद्बषम् ।।८७॥ आप्तागममुनीन्द्राणां श्रद्धानं तद्धि दर्शनम् । शंकादिदोषनिष्क्रान्तं गुणाष्टकविभूषितम् ॥८॥ तरोर्मूलं यथा धाम्नोऽधिष्ठानं कथितं जिनः । तथा कृत्स्नव्रतानां च सम्यक्त्वं शुद्धिकारणम् ॥६॥ मद्यमांसमधुत्यागः सहोदुंबरपंचकः।। इत्यष्टौ हि व्रतादीनामादौ मलगुणाः स्मृताः॥६०॥ . द्यूतमांससुरावेश्याखेटचौर्यपरांगनाः । सर्वपापकरं त्याज्यमिदं व्यसनसप्तकम् ॥१॥ अणुव्रतानि पंचैव त्रिविधं स्याद्गुणवतम् । शिक्षाव्रतानि चत्वारोति स्युर्द्वादशसव्रताः ।।१२।। कायवाकचित्तयोगन वसांगिपरिरक्षणम् । कृतादिना विधत्ते यस्तस्याद्यं स्याद्गुणवतम् ॥६३।। . सर्वसस्यादिनिष्पत्तौ यथा नीरं निरूपितम्। समस्तव्रतसिद्धौ च तथाऽहिंसाव्रतं जिनः ॥१४॥ सत्यं हितं मितं ब्रूयात् सारं धर्मयशस्करम् । मर्महिंसादिदूरं यो द्वितीयं स श्रयेद्वतम् ॥१५॥ परस्वं पतितं नष्टं विस्मृतं वा क्वचित्सुधीः । कृत्स्नाहि वाऽत्र नादत्त साचौर्याणुव्रतं भजेत् ॥६६॥
... ख. कृष्णाहिं वा