SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ... षष्ठः सर्गः दुर्व्याधौ सागरेऽरण्ये मृत्यो [वा] दुर्द्धरे रणे। . सर्वत्रापदि धर्मोऽयं शरण्यो नापरोंऽगिनाम् ॥७३॥ धर्मान्माता पिता बन्धुर्धर्मादेवाः सतां स्वयम्। किंकरा इव कुर्वन्ति लोकत्रयभवं सुखम् ॥७॥ नार्योऽतिकुत्सिताः पुत्राः शत्रुतुल्याश्च बान्धवाः । मातृपितृकुटुम्बाद्याः ह्यश्रेयो दुःखदायिनः ।।५।। दारिद्र यं रोगबाहुल्यं दुर्भगत्वं कुशोलता। कुकुलं कुत्सिता बुद्धिः कुरूपित्वं कुजन्मता ॥७६।। परकिंकरताऽकोतिर्नीचसंगोऽतिमूर्खता। पंगुमूकांध होनत्वं बधिरत्वादयोऽशुभाः॥७७॥ व्यसनित्वं दीनत्वं दुर्गतिर्दुःखसंततिः । क्रूरत्वं कृपणत्वं हि पापित्वं स्वल्पजीवितम् ॥७८|| निर्दयत्वं वियोगः स्वेष्टानां चानिष्टयोगता। निर्गुणत्वं हि हीनत्वं लंपटत्वं कषायता ॥७॥ कुज्ञानत्वं कुसंगत्वं हेयाहेयाऽविचारणम् । कुटिलत्वं कुमायित्वं मिथ्यात्वं चातिरागिता ॥८॥ • एवमाद्यमनोज्ञं यत् संसृतो प्राप्यतेऽगिभिः। जानीहि तत्फलं सर्व पापधत्त रशाखिनः ॥१॥ यत्किचिदुःखदं वस्तु कुगतिर्यात्र दुःखदा । ये रोगा दुःसहाः पापात्तत् कृत्स्नं जायते नृणाम् ॥२॥ वपुषा मनसा वाचा मिथ्यात्वेनाव्रतेन च । कषायेनाय॑ते पाप शठः स्वानर्थकारणम ॥३॥ मनोवाक्काययोगेन यतिश्रावकगोचरः । साध्यो धर्मो दयामलो न च हिंसादिना क्वचित् ॥४॥ १..ख. ग. घ. च। २...ख. ग.प.कृपणत्वं हि क्रूरत्वं ।
SR No.002236
Book TitleYashodhar Charitam
Original Sutra AuthorN/A
AuthorBhagchandra Jain
PublisherSanmati Research Institute of Indology
Publication Year1988
Total Pages184
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy