________________
यशोधरचरित्रम् सूक्ष्म कायसमं धोरमनादि चाविनश्वरम्। कर्मणां कर्तृ भोक्तारं जानीहि जिनशासने ॥६१॥ .. इत्याकर्ण्य स मौनोन्द्रं वाक्यं सत्यप्रतिष्ठितम् .. . . शुद्धभावाश्रितोऽवादोन्नत्वा तत्पादपंकजम् ॥६२॥ स्वामिन् निरुत्तरो जातो किं वदात्र करोम्यहम्। .. वचश्चंडोदितं श्रुत्वा जगादेदं कृपापरः ॥६३॥ यतींद्रः कुरु धीमत्वं धर्म विश्वसुखाकरम्।... सर्वसत्वहितं त्यक्त्वा पापं दुःखार्णवं सदा॥६४॥ धर्मवाक्यमथाकर्ण्य चंडो नम्रोऽवदन्मुदा । धर्मेन'सोः फलं स्वामिन् कीदृशं मे निरूपय ॥६५॥ ततः प्रचक्रमे वक्तुं साधुस्तदाभिवांछितम् । कृपया श्रुणते भव्य कथ्यमानं मयाऽखिलम् ॥६६॥ मदोन्मत्ता गजास्तुंगा वायुवेगा हया रथाः। ' योधाश्च सबलाः कोशराज्यं शत्रुभयंकरम् ॥६७॥ . . लावण्यकूपिका रामाः कामदेवनिभाः सुताः। बांधवाश्चानुकूल स्वकुटुंबं सुखसाधनम् ॥८॥ निधिरत्नादयोऽन्या वा संपदोऽखिलशर्मदाः। यशो भोगोपभोगादिछत्रशय्यासनान्यपि. ॥६॥ यानादि-सारवस्तूनि नीरोगत्वं सुरूपता। आज्ञाप्रभुत्वमान्यत्वं विद्वत्वादिगुणाः शुभाः ॥७०॥ इन्द्रत्वं चक्रवर्तित्वं बलकामादिसत्यदम्। देवत्वं तीर्थनाथत्वं सौख्यं लोकत्रयोद्भवम् ।।७१॥ एवमादिमनोज्ञं सद्धामिकैरिह लभ्यते। धर्मकल्पतरोः सर्व तत्फलं विद्धि तत्त्वतः ॥७२॥ -
१.वर्षपापयोरित्ययः ।