________________
षष्ठः सर्गः
१२१
निःशंकं धमतस्तस्य शंखनादो बुधैर्बहिः । भूयते न च नेत्राभ्यां दृश्यते निःसरन् क्वचित् ॥४६॥ यथा शंखध्वनिस्तस्या निःसरन्नोपलभ्यते। तथा जीवोऽप्यतो विद्धि पृथक्त्वं वपुरात्मनोः ॥५०॥ कोट्टपालस्ततोऽप्याह नैवं पूज्य यतो मया। तोलितस्तस्करो जोवस्तुलयात्र पुनर्मृतः ॥५१॥ यावन्मात्रः सजीवस्तं विनाभूत्सोऽपि तत्समः। • अतोऽवगम्यते व्यक्तमेकत्वं चात्मकाययोः॥५२॥
ऋषिर्वाक्यमुवाचेदं निःसंगः केनचिद्घटः । वायुना पूरितः पश्चात्त विनाप्यत्र तोलितः ॥५३॥ ससमीरो ऽसमीरोसौ यथैकसममानक:।। तथा प्राणी स जीवोऽत्र कायःस्यादेकरूपकः ॥५४॥ अनेन हेतुनावेहि देहान्निश्चेतनाद्ध्वम् । चेतनालक्षणं जीवं चान्यं वाप्यनुमानतः ॥५५॥ सोऽवोचद्युक्तमेवात्र नेदं साधो मयकदा। अन्यायी तस्करः खंडः खंडितोपि तिलोपमैः ।।५६।। · आत्मा दृष्टो न यत्नेन तत्सर्वांगः निरोक्षितः। . अतो जानेऽत्र नात्मास्ति देहादन्यः कदाचन ॥५७॥ . . तं प्रत्याह मुनोन्द्रोऽन्वारणिखंडो हि केनचित् । खंडितः सूक्ष्मखंडस्तत् सर्वांगाग्निनिरोक्षितः॥८॥ न दृष्टो विद्यमानोऽपि प्रयत्नेन यथा तथा। खंड: संखंडितें गेऽपि नांगी स्याद् दृष्टिगोचरः ॥५६॥ अतोऽति निश्चयं कृत्वा मद्वाक्येऽसत्यदूरगे। देहाद्भिन्नगुणैः पूर्ण जीवद्रव्यं सचेतनम् ॥६०॥
१.क. ससमीरोऽसौ यथैकतोलितः सममानक: ।