________________
१२०
यशोधरचरित्रम्
लभंते विविधं दुःखं चतुर्गतिभवं सदा। जन्ममृत्युजरोत्पन्नं त्रसस्थावरयोनिषु ॥३७॥ परोऽस्माज्जायते मोक्षः केषांचिच्च विरागिणाम्। तपो रत्नत्रयेणेव नित्योऽनंत-सुखार्णवः ॥३८॥ जनोक्तमार्गतो ज्ञात्वा मयाऽपि गृहबंधनम् । स्यक्त्वा मोक्षाय दीक्षेयं ग्रहोता मुक्तिदूतिका ॥३९।। देहाद्देही पृथग्भूतं सिद्धरूपं निरंजनम्। गुरुपदेशतो ज्ञात्वा ध्यायेदेकाग्रमानसः॥४०॥ चंडकाह भो साधो किं भदो वपुरात्मनोः। यमी जगो स्फुटं भद्र चेतनाचेतनौ यतः॥४१॥ चंडकाप्यतोऽवादीत्साधो जीवोऽस्ति,जातुन । यथा चंपकनाशेन तद्गंधोत्र विनश्यति ॥४२॥ तथा देहविनाशन नश्येत्तच्चेतना स्फुटम्। । अमुना हेतुना जीवाभावो निश्चीयते भुवि ॥४३॥ मुनिः प्राह न भद्रंवं तद्गंधोऽत्र यथा पृथक् । . . दृश्यते तैललग्नोंऽगात्तथा जोवो न संशयः ॥४४॥ , [स उवाच] यते नैवं यतश्चौरो भयकदा। प्रक्षिप्यान्नोष्ट्रिकायां सा जतुनापिहिताखिला ॥४५॥ स तस्यामेककालेन प्रापन्प्राणविमोचनम् । पश्यतापि मया यत्नान्न दृष्टो जोवनिर्गमः ॥४६॥ अतो जाने न भेदोऽस्ति संसृतौ देह-देहिनोः । किन्तु जीवः स एवांगं चांगं जीवो न चापरः॥४७॥ पुनर्जगो मुनिर्मित्र सशंखः केनचित्पुमान्। विनिक्षिप्योष्ट्रिकायां सा लिप्तात्यर्थं हि लाक्षया ॥४८॥
१. क.ख. ग. घ. सो नुवाच । २. क.ख. ग. घ. अदी । ३.क.भिन्न।