________________
षष्ठः सर्गः
११९
नवब्रह्मवतोपेतं दशधर्मगुणाकरम् । शोलायुधं दिशावस्त्र वपुःसंस्कारवर्जितम् ॥२५॥ तपोभिः कृशसर्वांगं मुरजादिपुरस्सरैः। मलजल्लादिसंलिप्तं ह्यकृशं गुणसंपदा ॥२६॥ विश्वसत्वहितोद्युक्तं भवाब्धेस्तारकं सताम् । कामघ्नं कामदं वंद्यं पापभोतं कृपापरम् ॥२७॥ इत्यादिसुगुणाधारं तस्याभ्यासे मुनीश्वरम्। अशोकद्रुमममूलेऽयात्संनिविष्टं ददर्श सः ॥२८॥ ततस्तेनेदमाध्यात नग्नेनाशुचिना वनम् । राज्ञो निर्लज्जचित्त न वरमेतेन दूषितम् ॥२६॥ अतः केनाप्युपायेन वनान्निर्वाटयाम्यहम्। लब्धो वायं मयोपायो गत्वा पृच्छामि किंचन ॥३०॥ यदभणिष्यत्ययं तत्कायष्याम्यहमन्यथा। यावत्तावत्समुद्विज्य यास्यत्येष वनात्स्वयम् ॥३१॥ इति ध्यात्वा ततोगत्वा तं प्रदेशं विधाय सः। मायया वंदनां दुष्टो मुन्यह्रयंते पाविशत् ॥३२॥ प्रस्तावेऽस्मिन्महान् योगो यातः सम्पूर्णतां मुनेः। धर्मवृद्ध याशिष तस्मै दत्त्वाऽस्थाच्छर्मणा यतिः॥३३।। दृष्ट्वा मुनि सुखासीनं पप्रच्छेदं दुराशयः । त्वयाऽत्र किं मुने ! ध्यातमेकाग्राहितसंहृदा ॥३४॥ विदन्नवधिना तस्य दौष्ट्यं हीदं जगाद सः। ... यातायातं प्रकुर्वन्ति संततं स्वर्तवो यथा ॥३४॥ यथात्र संसृतौ जीवा ग्रहणंत्यंगान्यनेकशः। मुंचंत्यन्यानि सर्वे च स्वकर्मशृंखलावृताः ॥३६॥
१. मृदंगमध्यतपःप्रमुखैः।