________________
सप्तमः सर्गः
१३३
सपाानेदृशं पापं राज्यं यद्भुज्यते नृपः। तन्ननं नरकांतं स्यात् ततो मेऽनेन पूर्यताम् ॥४६॥ यदि राज्यं भवेद्भद्रं कथं त्यक्तं जिनादिभिः । चिरं ध्यात्वेति भूपोऽयं राज्यं हित्वाऽऽददे तपः ॥४७॥ यशोमतिस्ततोऽवादोन्मित्र यद्येष पार्थिवः । एहि यामस्ततो नं तुंक्रमावस्य कुतूहलात् ॥४८॥ ततस्तत्पाणिमादायागमच्छ्रेष्ठी स्वपाणिना। . महापुण्योदयात् प्राप्तं मुनीश्वरपदान्तिकम् ॥४६॥ सौम्येन सोम सादृश्यं दोप्त्या सूर्यसमं मुनिम्। . रत्नाकरमिवागाधं स्थिरं मेरुशिखोपमम् ॥५०॥ .. निःसंगं वायुवद्धोरं रत्नत्रयविमंडितम् । ........ त्रिः परीत्य क्रमाभ्यासे नत्वोपाविशता हि तौ ॥५१॥ तत्क्षणे पूर्णयोगेन ह्य पाविश्य शिलातले।..... धर्मवृद्ध्या तदा तेन तो भव्यावभिनंदितौ ॥५२॥ .. . तं तीव्रतपसा दीप्तं दृष्ट्वा नु मुनिनायकम्। ....) काललब्ध्या महीपालो भोगे निर्वेदमाप्तवान् ।।५३।।.. ईदग्गुणगणैः पूर्ण शारीरं मुक्तिसाधनम्। ... हंतुं कथं मयारब्धं पाणिना योगिनो वृथा ॥५४॥ .. मतोऽत्रायास्यापराधस्य स्वशिरश्छेदनं विना। नापरा विद्यते शुद्धिस्ततस्तदहमादधे ॥५५॥ इति मृत्यूद्यतं ज्ञात्वाऽवधिनात्र यमो जगौ। विरूपकमिदं राजंस्त्वया संचिंतितं हृदि ॥५६।। निंदया गहणेनाशु पापं नश्यति संचितम्। दुश्चित्तेनात्र नान्येन शिरच्छेदादिना क्वचित् ॥५७।। ततो ज्ञातमनोर्थोऽसौ साश्चर्यो नाथ मेत्विमम् । अपराध क्षमस्वाद्य कृपां कृत्वातिपापिनः ॥५८॥