________________
११६
यशोधरचरित्रम्
अथाज्ञा निर्गता राज्ञः पक्वं पक्वं तदामिषम् । छित्त्वा छिवास्य दुष्टस्यानीयतां भोजनाय मे ॥१२१॥ ततोऽसौ पच्यते यत्र प्रदेशे तत्र कृत्यते । क्रियते सूपकारेण भुज्यते तन्नुपादिभिः ॥ १२२ ॥ पश्यतस्तदवस्थां मे भयत्रस्तस्य तद्बधात् । शारीरं मानसं दुःखं जातं तोव्रतरं तदा ।। १२३ ।। स्मरतोऽद्यापि तदुःखं पश्यांगं मे प्रवेपते । पवनाहतपत्रं वा दुस्सहं त्वं महोपते ॥ १.२४ ॥ यावदेवं त्रिपादेन तिष्ठाम्यसरणोऽसुखी ।
ज्ञा प्रोक्तमिमं छागं कृत्वानय भडित्रकम् ।। १२५ ।। समुद्धृत्य ततस्तेन क्षिप्तोहं पापिनाऽनले । परं रावं प्रकुर्वाणो भजन्स्यंदादिकं मुहुः ॥ १२६ ॥ छिद्यते भिद्यतेऽगं मे सिच्यते लवणांबुना । दह्यते पावके दोप्तेऽशुभात् तस्य च तज्जनैः ।। १२७।। . एवं प्रागजिताश्रेयः पाकेनाहं मृतश्चिरम् । दुःखं तीव्रतरं भुक्त्वा वह्निकायाशयोद्भवम् ॥ १२८ ॥
एवं दुःखमनारतं च विविधं धर्मात्याद्धिसनात्,
सत्वानां प्रभवेद्विमूढमनसां घोरं चिरं दुर्गती । मत्वेत्यत्र जना जिनेश्वर वृषं मा भो त्यजंतु क्वचित्, प्राणान्तेप्य शुभार्णवां गिवधनं मुक्तं कुरुध्वं च मा ॥ १२९॥
ये साधयंति चरणं सुखरत्नवाद्धि
दृग्ज्ञानशुद्धमनिशं विविधं च योगम् ।
आतापनादिजमपीह दिसंतु ते मे
श्री साधवोऽत्र नमिताः स्वगुणान् गरिष्टान् ॥ १३० ॥
इति श्री भट्टारकसकल कीर्तिविरचिते यशोधरचरित्रे चन्द्रमती- पंचम-भव-वर्णनो नाम
पंचमः सर्गः ॥५॥