________________
षष्ठः सर्गः
महाव्रतधरं धीरं वंदेहं मुनिसुव्रतम् । विश्वव्रतप्रदं देवदेवं सद्वतहेतवे ॥१॥ अथ तत्रैव पाणानां पाटके ऽशुचिसंकुले । आवां हि कुक्कुटौ जातौ कुक्कुटीजठरेऽशुभात् ॥२॥ एकदा सावयोर्माता प्रसूतसमयोन्मुखी। पापिना वृषदंशेन प्राशिताऽशुभकर्मणा ।।३।। पतितं जठरात्तस्या आवयोर्दैवयोगतः । कथंचिदंडकद्वंद्व कचारस्थपुटावनी ॥४॥ मासके तत्र शोतोष्णवाताद्यैश्च प्रपीडितो। क्षुत्त षाभिः स्थितावावां दीनाववातिगो नृप ॥५॥ अथास्मन्मस्तके काचित्कचारं श्वपचांगना। आनीयाक्षिपदावाभ्यां तद्घातादटित भयात् ॥६॥ श्रुत्वा शब्दं च विक्षिप्य तं कचारं क्रमेण सा। . दृष्ट्वा वां सुन्दरी नोत्वा जगाम निजमंदिरम् ॥७॥ कीटासनादिसंसक्तो तत्र दृष्टाबथान्यदा । आवामागच्छता चंडकर्मणा रूपिणी वनात् ॥८॥ मत्वा राज्ञो ध्रवं योग्यौ क्रीडा) चारुलक्षणो। . तेनावां दर्शितौ रम्यौ स्वयं नीत्वा यशोमतेः ॥६॥ सोऽप्याप नितरां प्रीतिमस्मदर्शनमात्रतः। पितॄणां दर्शनं किं नो नृणां तोषाय जायते ॥१०॥.. पोषणार्थ स्वयं राज्ञा तस्यैवायां समर्पितो। तेनावयोर्युगं नीत्वा पंजरस्थं कृतं गृहे ॥११॥ -तत्रावयो रजन्येका सुखेनैव गतः क्वचित् । शीतवातादिसंत्राणान्नोरपानात्कणादनात् ॥१२॥