________________
+
यशोधरचरित्रम्
भुक्त्वा गतेषु सर्वेषु भुजानं सपरिच्छदम् । दृष्ट्वा यशोमती दार चित्ते यमभूत्तदा ॥६॥ दृश्यतेऽतः पुरं सर्वं न पुनर्दृश्यते प्रिया। अमृतादिमहादेवी क्व गता मेऽसुनाशिनी ॥७॥ अथेदं प्रावदत् काचिद्दासो दास्या समं हतो। हतानां महिषाणामद्यैव गंधोऽतिदुस्सहः ॥६॥ अन्याऽवोचदिदं नायं गंधो महिषकायजः । कुष्टपीडितदेव्या हि किंतु मोनाशनात्तनोः ॥६६॥ अतोऽथाह परानेयं मीनभक्षणदोषतः । जाताति कुष्टिनी किंतु विषं दत्त्वानया बलात् ॥१००।। स्वभर्ता मारितस्तेन पापेनेयं विनिंदिता। दुगंधा कुष्टिनी जाता दुःशीला श्वभ्रगामिनी ॥१०१॥ चेटीवाक्यं समाकर्ण्य ज्ञात्वा सा पुत्रसंन्निधौ। उपविष्टा मयात्यंतबीभत्सा मत्प्रियाऽशुभा ॥१०२॥ शीर्णागुलिनखा पादस्फुटिता ह्रस्वनासिका। . प्रविष्टनयनातीवनिंद्यकाया कुरूपिणो॥१०३ ॥ ततो मयेति सध्यातं यदात्मास्याः शुभो भुवि । स्याच्छुभश्च तदा कायः स्वातोव दुष्टचेष्टया ॥१०४॥ यदाऽभूत्स पुनर्दुष्टस्तदा तेन समं वपुः। . बभूवाऽशुभयोगेन दुर्गधं च घृणास्पदम् ॥१०॥ अहो पापं न कर्तव्यं प्राणान्ते पि क्वचिबुधः । कृत्स्नानिष्टाकरीभूतं मे चितेति तदाऽभवत् ॥१६॥ सूपकारस्ततो देव्या प्रार्थितः छागलामिषम्। भपोऽपि तं प्रति प्राह छागं कृत्वा भडित्रकम् ॥१०७॥ आनयेमं हि मद्राशु ह्यनेन मंदवह्निना। तेनापि मम पादकं संछिद्य विहितक्रियम् ॥१०८।।