________________
पञ्चमः सर्गः
यदि स्यात् सप.लो मेऽद्य मृगया. देवि ते परान् । विशति महिषान् दास्ये भक्त्यागत्य प्रियंकरान् ॥ ८४ ॥ तेनानुसिद्धयात्रेण कालतालस्य योगतः । हताः सुमहिषा हर्षान्निर्दयेन तदंगणे ॥८५॥
सर्वं तदामिषं नीतं राजपुंसां महानसे । राज्ञो मातुर्द्विजातीनां परेषां भोजनाय च ॥ ८६ ॥ शठेन सूपकारेणैतस्मिन्नवसरे नृपः । विज्ञापितोति नम्रण पलशुद्ध, यर्थमेव हि ॥ ८७ ॥ स्वामि यत्किचिदुच्छिष्टं काकमार्जारमंडलैः ।। आघ्रातं तदजेनाशु शुद्ध ं स्यादिति वाग्मतो ||८|| Parisaraice मूढात्मा महाजं तं समानय । तेनानीयास्मि बद्धोहं कर्मणा तन्महानसे ॥ ८६ ॥ पिपासायासितस्तत्र क्षुधाक्रांतोऽतिदुःखभाक् । आस्ते यावदहं तावन्मेऽभूज्जातिस्मरस्तदा ||१०|| मत्सुखार्थं मत्पुत्रेण मद्दारैः पंक्तयः परम् । भोजिता मधुमांसाद्यैर्भक्त्या वेदविदां मुदा ॥ १ ॥ स्वर्णगोभूमिदानानि दत्तानि मे पिता समम् । प्राप्नोतु चन्द्रमत्येति भणित्वादि वितत्फलम् ॥१२॥ मे तत्रावस्थितस्यापि किचिन्नायाति केवलम् । वर्धते क्षुत्पिपासा च दुःखं मानस- कायजम् ॥१३॥ यथां भोमथनात्सर्पि रहिवक्त्रात्सुधा क्वचित् । धर्मांगिहननात्कीर्तिः क्वाचारः राज्जायते न च ॥१४॥ तथा पुत्र प्रदानेन पितॄणां तृप्तिरेव न । अतः श्रद्धादिकं दानं पुसां स्यात्तुषकंडनम् ||१५||
१. पिपासापीडितः इत्यर्थः ।
१११