________________
यशोधरचरित्रम् भार्ययेदं पलं मुक्तं साद्धं पुत्रस्नुषाजनैः। इत्यादि विविधं दुःखमनुभूय चिरान्मृतः ॥७२॥ अथ हारचरी पूर्वमजाया कयिता नृप। तस्या गर्भेऽवतीर्णोऽहं मरमो' दुरितोदयात् ॥७३॥ प्राप्य जन्मातिकष्टेन बाल्येऽशर्मसुधादिजम्। शीतोष्णादिभवं चैव यौवनं लब्धवानहम् ॥४॥ एकदा मूढधीः कुर्वन्कामसेवां सहाम्बया। . स्वासक्तमनसा दृष्टो यूथनाथ महाविना ॥७॥ कोपादहं तथा तेन कुक्षौ शृगेण दारितः। यथा जोवः सशुक्रो मे संक्रांतस्तदजोदरे ।।७।। नियमाणेन दुःखेन मयेत्थं पापिनात्मना। आत्मात्त्र जनितो राजन्स्वशुक्रणात्ममातरि॥७॥ ततोन्यदा स यूथेशो दृष्टो मत्सूनु भूभुजा। . तयांऽबयाऽजया साकं प्राप्तप्रसवकालया ॥७॥ मगयालाभरुष्टेन तया साद्धं शरेण सः। विद्धो महोभृता पापादभूवं विगतासुकः ।।७।। प्राप्यतो विद्धलक्षौ च पितरौ मे ददर्श माम्। चलंतं मातृगर्भस्थं हिंसानंदान्वितोपि सः ॥०॥ विपाट्य जठरं तस्या राज्ञा निस्सारितः शनैः। चन्द्रमत्याख्यया छागः सुंदरोऽहं समर्पितः ॥१॥ अजा गोपाल कास्येशानु संस्काराय जावितः। अन्यमातृपयःपानः प्राप्तोऽहं यौवनं क्रमात् ॥२॥ अथैकदातिरौद्रेय यशोमति महीभुजा। उक्ता कात्यायनी देवी नत्वेदं पापकारणम् ॥३॥
.
१. मरभो-यशोधरश्छागस्पेण जातः ।