________________
. पञ्चमः सर्गः गतेषु तेषु सर्वेषु निःसृत्य विवरावहम्। कियत्कालं स्थितस्तस्मिन् जीवाहारी विभीहृदे ॥५६॥ कदाचिन्मांसिकैरेत्य तं हृदं मत्स्यकांक्षिभिः । प्रात्वा जालं तथा मुक्तं यथा याति ममोपरि ॥६॥ मत्स्यं जालागतं ज्ञात्वा स्वांतस्तुष्ट्वा प्रविश्य तैः । उद्धृत्य स्वकरैर्नीतो बद्धांमोहं जलात् स्थलम् ॥६॥ दृषत्यादादिघातस्ते प्रवृत्ता मां हिंसितुम्। मा क्रुरुध्वं मृति ह्यस्य तद्वृद्ध नेति जल्पितम् ॥६२॥ श्रु त्वा तद्वचनं ध्यानं मयेत्येष दयाधीः । कारयिष्यति मे मोक्षं जलबद्धस्य दुःखिनः ॥६३॥ पुनः प्रोक्तं वचस्तेन रोहिताख्यो झषोऽप्ययम्। भोज्यश्च स्यान्नवो राज्ञो हतोऽद्य क्लिन्नकं व्रजेत् ॥६४॥ आरोप्याऽहं ततः खट्वां नीत्वा तैर्निजपाटकम् । तृणगेहस्थदेशककचारे निर्दयैर्ध तः ॥६५॥ जलजेन मया घोरा स्थलजा सातसंततिः।
सोढा तीव्रतरा क्षुत्त दंशशीतातपादिजा ॥६६॥ • दुःखेन महता मेऽगात्कथंचिद्रजनीक्षयम्। ततोऽहं दश्चितः प्रातर्मत्सूनोस्तैर्धनेच्छया ॥६७।। सोऽप्यादायातिमूढात्मा मां क्यो मातुरंतिकम् । तस्या अग्रे निधायेत्थं वक्तुं नम्रः प्रचक्रमे ॥८॥ अम्ब रोहितमत्स्योयं पितृणां प्रोणने क्षमः । श्रावाद्यश्च स्मृतौ वेदे इत्युक्तं वेदवेदिभिः ॥६॥ अतोऽप्यस्यामिषेण त्वं कुरु श्राद्ध च येन मे। पिता चन्द्रमति स्वर्गे भुक्ते सौख्य [मनोरथम्] ।।७।। धृत्त्वातो मस्तके पादं छित्वा पुच्छं तयाभिषम्। नीत्वा महानसे चाज्येतलितं सर्वतो मम ।।७१।।
१. क-पत्तनम् ।